________________
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरिक शक्तिः पृथिव्यादीनां पृथिवीत्वादिकमेव तदभिसम्बन्धादेव तेषां कार्यकारित्वात् । अन्त्या तु चरमसहकारिरूपा, तत्सद्भावे कार्य करणादभावे चाकरणात् । तथाहि-सन्तोपि तन्तवो न कार्यमारभन्ते अन्त्यतन्तुसंयोगं विनेति सैव शक्तिस्तेषाम् । ननु कथमर्था५न्तरमर्थान्तरस्य शक्तिः ? अनर्थान्तरत्वेपि समानमेतत्-'स एव तस्यैव न शक्तिः' इति । अथ यदि पूर्वेषां सहकार्येव शक्तिस्तर्हि तस्याप्यशक्तस्याकारणत्वादन्या शक्तिर्वाच्येत्यनवस्था; तदयुक्तम्; चरमस्य हि सहकारिणः पूर्वसहकारिण एव शक्तिः इतरेतराभिसम्बन्धेन कार्यकरणात् । स एव सैमग्राणां भावः सामग्रीति १० भावप्रत्ययेनोच्यते, तेन संता सैमग्रव्यपदेशात् ।।
किञ्च, असौ शक्तिर्नित्या, अनित्या वा स्यात् ? नित्या चेत्सवंदा कार्योत्पत्तिप्रसङ्गः। तथा च सहकारिकारणापेक्षा व्यर्थार्थानाम् तल्लाभात्प्रागेव कार्यस्योत्पन्नत्वात् । अथानित्यासोः कुतो
जायते ? शक्तिमतश्चेत्, किं शक्तात्, अशक्ताद्वा ? शक्ताच्चेच्छक्य. १५न्तरपरिकल्पनातोऽनवस्था स्यात् । अशक्तात्तदुत्पत्तो कार्यमेव
तथाविधात्ततः किन्नोत्पद्येत? अलमतीन्द्रियशक्तिकल्पनया।.. . तथा, शक्तिः शक्तिमतो भिन्ना, अभिन्ना वा स्यात् ? अभिन्ना 'चेत्, शक्तिमात्रं शक्तिमन्मात्रं वा स्यात् ? भिन्ना चेत्, 'तस्ययम्'
इति व्यपदेशाभावः अनुपकारात् । उपकारे वा तया तस्योपकारः, २० तेन वाऽस्याः? प्रथमपक्षे शक्तिमतः शत्योपकारोऽर्थान्तरभूतः, .. अनर्थान्तरभूतो वा विधीयते ? अर्थान्तरभूतश्चेदनवस्था, तस्यापि
१ पृथिवीत्वादिस्वरूप। २ शक्तिः । ३ अन्त्य । ४ जैनादिः। ५ बीजस्य । ६ नैयायिकः । ७ वह्निः । ८ वहेः । ९ अपरसहकारिशक्त्यभावादशक्तः । १० अतीन्द्रियया शत्तया शक्तिमतः उपकारः क्रियते इत्यस्मिन्पक्षे शतया क्रियमाण उपकारः शक्तिमतो भिन्नश्चेत्तदानवस्था। कथम् ? उपकारोपि शक्तिमतो भिन्नो यदि तदा शक्तिमतोऽयमुपकार इति सम्बन्धो न स्यात् भिन्नत्वात् । उपकारेणापि स्वसम्बन्धसिद्ध्यर्थमुपकारान्तरं क्रियते चेत्तदा शक्तेनाऽशक्तेन वोपकारेणोपकारान्तरं क्रियते ? न तावदशक्तेन-अशक्तस्योपकारकरणे अक्षमत्वात् । शक्तेन चेदुपकारेण स्वसम्बन्धसिध्धर्थमुपकारान्तरं विधीयते तर्हि यया शक्त्या स्वयं शक्तः उपकारः सापि भिन्नाऽमिन्ना वा ? भिन्ना चेत्तदोपकारस्येयं शक्तिरिति न-तस्माद्भिन्नत्वात् । शक्तयापि स्वसम्बन्धसिध्द्यर्थ. मुपकारान्तरं क्रियते इत्यादिप्रकारेणानवस्था । ११ कारणानाम् । १२ विद्यमानेन। १३ तन्तूनाम् । १४ इत्यनवस्था परिहता। १५ यया शक्तया शक्तिमान् शक्तः सापि नित्याऽनित्या वा? न तावन्नित्या-सर्वदा कार्योत्पत्तिप्रसङ्गात् । अथानित्या, सापि कुतो जायेत ? शक्तिमतश्चेच्छक्कादशक्ताद्वेत्यादिप्रकारेण । १६ स्फोटादि । १७ शक्तिः। १८ शक्तिमतः सकाशात् । १९ पूर्ववत् । २० न केवलं शक्तेः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org