________________
सू० १११०] ज्ञानान्तरवेद्यज्ञानवादः
१४३ मप्रत्यक्षेण ज्ञानान्तरेणात्मान्तरज्ञानेनेवास्य ग्रहणविरोधात् । ननु ज्ञानस्य स्वविषये गृहीतिजनकत्वं ग्राहकत्वम् , तच्च हानान्तरेणागृहीतस्यापीन्द्रियादिवद्युक्तमित्यपि मनोरथमात्रम् ; अर्थज्ञानस्यापि ज्ञानान्तरेणागृहीतस्यैवार्थग्राहकत्वानुषङ्गात् । तथा च ज्ञानज्ञानपरिकल्पनावैयर्थं मीसांसकमतानुषङ्गश्च ।
लिङ्गशब्दसादृश्यानां चौगृहीतानां खंविषये विज्ञानजनकत्वप्रसङ्गात्तद्विषयविज्ञानान्वेषणानर्थक्यम् । 'उभयथोपलम्भाददोषः' इत्यभ्युपैगमेपि किञ्चिल्लिङ्गादिकमशांतमेव चक्षुरादिकं तु ज्ञातमेव स्वविषये प्रमितिमुत्पादयेत्तत एव । अथ चक्षुरादिकमेवा. ज्ञातं स्वविषये प्रमितिनिमित्तम् , न लिङ्गादिकं तत्तु ज्ञातमेवें १० नान्यथाऽतो नोभैयत्रो)यथाप्रसङ्गःप्रतीतिविरोधात्, नैन्वेवं यथा अर्थज्ञानं ज्ञातमर्थे शप्तिनिमित्तम् , तथा ज्ञानज्ञानमपि ज्ञानेऽस्तु, तत्राप्युभयथापरिकल्पने प्रतीतिविरोधाविशेषात् । यथैव हि"विवादापन्नं चक्षुरौद्यज्ञातमेवाथै ज्ञप्तिनिमित्तं तत्त्वादसच्चक्षुरादिवत् । लिङ्गादिकं तु ज्ञातमेव क्वचिज्ज्ञप्तिनिमित्तं तत्त्वादुभयवादि-१५
१ द्वितीयेन। २ सन्तानान्तर। ३ झानस्य । ४ द्वितीयं । ५ अर्थशाने । ६ परिच्छित्ति। ७ कथ्यते । ८ तृतीयशानेन । ९ द्वितीयशानस्य । १० अदृष्टादि । ११ ई । १२ मीमांसकमते अगृहीतस्यैव (परोक्षस्य ) शानस्यार्थग्राहकत्वात् । १३ गामभ्याजेत्यादि । १४ संज्ञासंशिसम्बन्धप्रतिपत्तेः कारणं सादृश्यं । १५ किञ्च । १६ अनुमेये। १७ गामभ्याजेत्यादिवाक्यार्थे । १८ लिङ्गादिश्चासौ विषयश्च । १९ इन्द्रियस्याशातस्य लिङ्गादेर्शातस्य । २० न त्वज्ञातं ज्ञापकं नाम । २१ गृहीतस्यागृहीतस्य च गृहीतिजनकत्वेन । २२ अर्थशानतद्वाहकज्ञानवच्च । २३ परेण । २४ परकीयं । २५ अमदादिकं लिङ्गन्तु ज्ञात मेव । २६ परकीयं । २७ परस्य । २८ चक्षुरादौ लिङ्गादौ च । २९ यथाक्रमं ज्ञातत्वाशातत्वप्रकारेण । ३० इति चेत् । ३१ उभयथोभयत्र विकल्पे प्रतीतिविरोधप्रकारेण । ३२ ज्ञातं । ३३ शप्तिनिमित्तं । ३४ ज्ञाने। ३५ एकं ज्ञातमपरं चाज्ञातं स्वविषये प्रमितिजनकम् । ३६ परस्य । ३७ परकीयम् । ३८ अप्रत्यक्षत्वाविशेषाभावात् । ३९ परस्य । ४० स्वविषये।
1"स्यान्मतम्-चक्षुरादिकमेवाशातं स्वविषयशप्तिनिमित्तं दृष्टं न तु लिंगादिकम् , तदपि ज्ञातमेव नान्यथा ततो नोभयत्रोभयथाप्रसङ्गः प्रतीतिविरोधादिति; तहिं यथा अर्थशानं व्यवसितमर्थशप्तिनिमित्तं तथा ज्ञानज्ञानमपि ज्ञानेऽस्तु, तत्रापि उभयथा परिकल्पनायां प्रतीतिविरोधस्याविशेषात् । कया पुनःप्रतीत्या अत्र विरोध इति चेत् । चक्षुरादिषु कयेति समःपर्यनुयोगः। विवादापन्नं चक्षुरादिकमज्ञातमेव अर्थशप्तिनिमित्र चक्षुरादित्वात्. तथा विवादाध्यासितं लिंगादिकं ज्ञातमेव कचिद्विशप्तिनिमित्तम् लिङ्गादित्वात् , यदित्थं तदित्थं यथोभयवादिप्रसिद्धं धूमादि, तथा च विवादाध्यासितं
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org