________________
१४२
प्रमेयकमलमार्तण्डे [प्रथमपरि० सर्वसाधारणत्वाञ्चातो न तनियमः । चादृष्टस्यापि प्रतिनियमः सिद्धः; तस्यात्मनोऽत्यन्तभेदात् समवायस्यापि सैर्वत्राविशेषात् । 'येनात्मना यन्मनः प्रेर्यते तत्तस्य' इत्ययुक्तम् , अनुपलब्धस्य प्रेरणासम्भवात्। ५ किञ्च, ईश्वरस्यापि खसंविदितज्ञानानभ्युपगैमे 'सदसद्वर्गः कस्यचिदेकज्ञानालम्बनोऽनेकत्वात्पञ्चाङ्गुलवत्' इत्यत्र पक्षीकृतैकदेशेनं व्यभिचारः-तज्ज्ञांनान्यसदसद्वर्गयोरनेकत्वाविशेषेप्येकज्ञानालम्बनत्वाभावादेकशाखाप्रभवत्वानुमानवत् । खसंविदितत्वाभ्युपगमे चास्य अनेनैवै प्रमेयत्वहेतोर्व्यभिचार इत्युक्तम् । १०'अस्मदादिज्ञानापेक्षया ज्ञानस्य ज्ञानान्तरवेद्यत्वं साध्यते' इत्यत्राप्युक्तम् ।
किञ्चाये झोंने सति, असति वा द्वितीयज्ञानमुत्पद्यते ? सति चेत्-युगपज्ज्ञानानुत्पत्तिविरोधः । असति चेत्, कस्य तद्राहकम् ? असतो ग्रहणे द्विचन्द्रादिज्ञानवदस्य भ्रान्तत्वप्रसङ्गः। १५ किञ्च, अमदादीनां तज्ज्ञानान्तरं प्रत्यक्षम् , अप्रत्यक्ष वा। यदि
प्रत्यक्षम्-स्वतः, ज्ञानान्तराद्वा? स्वतश्चेत्, प्रथममप्यर्थशानं स्वतः प्रत्यक्षमस्तु । शानान्तरात्प्रत्यक्षत्वे तदपि ज्ञानान्तरं ज्ञानान्तरात्प्रत्यक्षमित्यनवस्था । अप्रत्यक्षं चेत् कथं तेनाद्यज्ञानग्रहणम् ? स्वय
१ किञ्च । २ अस्येदमदृष्टमिति । ३ आत्मसु गगनादौ । ४ परैः। ५ द्रव्यगुणकर्मसामान्यविशेषसमवायरूपः सर्गः। ६ प्राक्प्रध्वंसेतरेतरात्यन्ताभावरूपोऽसद्वर्गः। ७ पारिशेष्यादीश्वरस्य । ८ गुणरूपेन विज्ञानेन । ९ सद्वर्गेण । १० ईश्वर । ११ द्वन्दः । १२ ईश्वरशानान्यपदार्थयोरेकज्ञानालम्बनत्वे स्वसंविदितत्वप्रसङ्गः। १३ पकानि एतानि फलानि । १४ एवं। १५ हेतुः। १६ व्यभिचारपरिहारार्थ । १७ परैः। १८ ईश्वरस्य । १९ गुणरूपेण महेश्वरज्ञानेन। २० स्वभावालम्ब. नादिति। २१ स्वभावालम्बनादित्यादि। २२ अस्मदादेः। २३ ज्ञानान्तरम् । २४ भवन्मते। २५ शानस्य । २६ अर्थशानं भ्रान्तमसद्हणात् । २७ द्वितीयम् ।
२५
1"नच येनात्मना यन्मनः प्रेर्यते तत्तत्सम्बन्धि इति प्रतिनियमः अदृष्टवदामनोऽपि अचेतनत्वेन तत्प्रत्यप्रेरकत्वात् । चेतनत्वेऽपि नानुपलब्धस्य प्रेरणम् ।"
सन्मति० टी० पृ० ४७७, न्यायकुमु० पृ० २७२ । 2 "किंच, स्वसंविदितज्ञानानभ्युपगमे 'सदसर्गः कस्यचिदेकज्ञानालम्बनः भनेकत्वात्पञ्चाङ्गुलवत्' इत्यत्र पक्षीकृतैकदेशेन व्यभिचारः, तज्ज्ञानान्यसदसदर्गयोरनेकत्वाविशेषेऽपि एकझानालम्बनत्वाभावात् एकशाखाप्रभवत्वानुमानवत् ।"
सन्मति० टी० पृ० ४७७ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org