________________
१३४
प्रमेयकमलमार्तण्डे [प्रथमपरि० तेनात्मनो ज्ञानद्वयस्य चाग्रहणे 'अत्रेदं समवेतम्' इति प्रतीत्ययोगात् । तस्य तत्र समवेतत्वमेव तद्ब्रहणमित्यपि नोत्तरम्। अन्योन्याश्रयात्-सिद्धे हि 'इदमत्र' इति ग्रहणे तत्र समवेतत्वसिद्धिः, तस्याश्च तंद्रहणसिद्धिः । यश्चात्मीयज्ञानमात्मन्यपि स्थितं ५न जानाति सोर्थजातं जानातीति कश्चेतनः श्रद्दधीत? नापि ज्ञानेन 'स्थाणावह समवेतम्' इति प्रतीयते; तेनाप्याधारस्यात्मनश्चा. ग्रहणात् । न च तदग्रहणे 'ममेदं रूपमत्र स्थितम्' इति सम्भवः।
अस्तु वा समवेतत्वप्रतीतिः, तथापि-खंज्ञानस्याप्रत्यक्षत्वात्सर्वज्ञत्वेविरोधः । तदप्रत्यक्षत्वे चानेनाशेषार्थस्याप्यध्यक्षता१०विरोधः। कथमन्यथात्मान्तरज्ञानेनाप्यर्थसाक्षात्करणं न स्यात् ? तथा चेश्वरानीश्वरविभागाभावः-स्वयमप्रत्यक्षेणापीश्वरज्ञानेनाशेषविषयेणाशेषस्य प्राणिनोऽशेषार्थसाक्षात्करणप्रसङ्गात् । ततस्तद्विभागमिच्छता महेश्वरज्ञानं खतः प्रत्यक्षमभ्युपेगन्तव्यमित्य
नेनानेकान्तः सिद्धः। १५ अथास्मदादिशानापेक्षया ज्ञानस्य शानान्तरवेद्यत्वं प्रमेयत्वहे
तुना साध्यतेऽतो नेश्वरज्ञानेनानेकान्तोऽस्यास्मदादिज्ञानाद्विशि
१ शानविकलो गृह्णाति शानसहितो वा । शानविकलश्चेत् शानद्वयकल्पनानर्थक्यमात्मैवार्थशानस्य ग्राहकोस्तु । शानसहितश्चेत् । तदपि ज्ञानमात्मनि समवेतमिति कुतो जानाति आत्मैव शानं वेत्यादिविचारः। २ अत्रेदं। ३ किञ्च । ४ शानवान् । ५ शानद्वयेन प्रतीयते। ६ ईशे । ७ ज्ञानाद्भेदे सत्यास्थाणुसदृश इत्यर्थः । ८ ईश्वरस्य। ९ शानरूपस्य । १० स्वस्मिन्। ११ ज्ञानस्य स्वसंविदितत्वात् । १२ स्वप्रक्रियामात्रेण । १३ आत्मान्तरज्ञानेनाप्यर्थसाक्षात्करणं भवत्विति चेत् । १४ ईश्वरज्ञानस्य । १५ महेश्वरस्य । १६ किञ्च । १७ स्वस्य संसारिशानेनापीति अध्या( हा )रः । १८ ईश्वर । १९ बसः। २० परेण। २१ योगेन। २२ हेतोरीश्वरज्ञाने व्यभिचारः । २३ परेण मया।
__ 1 "यदि पुनरप्रत्यक्षमेवेश्वरार्थशानज्ञानं तदेश्वरस्य सर्वशत्वविरोधः स्वशानस्याप्रत्यक्षत्वात् । तदप्रत्यक्षत्वे च प्रथमार्थज्ञानमपि न तेन प्रत्यक्षम् , स्वयमप्रत्यक्षेण ज्ञानान्तरेण तस्यार्थज्ञानस्य साक्षात्करणविरोधात् । कथमन्यथा आत्मान्तरज्ञानेनापि कस्यचित् साक्षात्करणं न स्यात् । तथा चानीश्वरस्यापि सकलस्य प्राणिनः स्वयमप्रत्यक्षे. णापि ईश्वरज्ञानेन सर्व विषयेण सर्वार्थसाक्षात्करणं संगच्छेत् ततः सर्वस्य सर्वार्थवेदित्वसिद्धेः ईश्वरानीश्वरविभागाभावो भूयते ।" प्रमाणप० पृ० ६०।
2 "स्यान्मतिरेषा ते युष्माकमस्सदादिज्ञानापेक्षया अर्थज्ञानस्य ज्ञानान्तरवेद्यत्वं प्रमेयत्वहेतुना साध्यते ततो नेश्वरज्ञानेन व्यभिचारः, तस्यास्सदादिज्ञानादिशिष्टत्वात् ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org