________________
सू० १।१०] ज्ञानान्तरवैद्यज्ञानवादः १३३ वस्था-तस्यापि ज्ञानान्तरेण प्रत्यक्षत्वात् । ननु नानवस्था नित्यशानद्वयस्येश्वरे सदा सम्भवात् , तत्रैकेनार्थजातस्य द्वितीयेन पुनस्तज्ज्ञानस्य प्रतीते परज्ञानकल्पनया किञ्चित्प्रयोजनं तावतैवार्थसिद्धरित्यप्यसमीचीनम् ; समानकालयाँवद्रव्यभाविसजातीयगुणद्वयस्यान्यंत्रानुपलब्धेरैत्रापि तत्कल्पनाऽसम्भवात् । ५
सम्भवे वा तद्वितीयंशानं प्रत्यक्षम् , अप्रत्यक्षं वा? अप्रत्यक्षं चेत्, कथं तेनाद्यज्ञानप्रत्यक्षतासम्भवः? अप्रत्यक्षादप्यतस्तत्सम्भवे प्रथमज्ञानस्याऽप्रत्यक्षत्वेऽप्यर्थप्रत्यक्षतास्तु । प्रत्यक्षं चेत्, खतः, ज्ञानान्तराद्वा? खतश्चेदाद्यस्यापि खतः प्रत्यक्षत्वमस्तु । ज्ञानान्तराञ्चेत्सवानवस्था। आद्यज्ञानाच्चेदन्योन्याश्रयः-सिद्ध ह्याद्य-१० ज्ञानस्य प्रत्यक्षत्वे ततो द्वितीयस्य प्रत्यक्षतासिद्धिः, तत्सिद्धौ चाद्यस्येति।
किञ्च, अनयोनियोर्महेश्वरानेदे कथं तदीयत्वसिद्धिः समवायादेरग्रे दत्तोत्तरत्वात् ? तैदाधेयत्वात्तत्त्वेप्युक्तम् । तदाधेयत्वं चे तंत्र समवेतत्वम् , तच्च केन प्रतीयते? न तावदीश्वरेण,१५
१ द्वयोर्शानयोर्मध्ये । २ आधेन। ३ समूहस्य । ४ प्रयोजनम् । ५ कथमनवस्था। ६ गुणद्वयानुपलब्धेरित्युक्ते मातुलिङ्गे रूपरसाभ्यां व्यभिचारस्तत्र तदुपलब्धेरतः सजातीयेत्युक्तं तथापि क्रमेणात्मनि सुखा[सुखा]ख्यगुणद्वयस्योपलब्धेरतः समानकालेत्युक्तं तथापि नानापुरुषैरुच्चार्यमाणशब्दानां समानकालसजातीयगुणत्वेन आकाशे उपलब्धेरतो यावद्रव्यभावीत्युक्तं न चाकाशस्थितिपर्यन्तं शब्दानामनवस्थानं तेषामनित्यत्वेनोपगमात् त्रिक्षणस्थायित्वाच्च । ७ यावद्रव्यं तावद्भावीति । ८ आत्मघटादौ । ९ ईश्वरो वीतगुणद्वयाधारो न भवति द्रव्यत्वात्पटवत्। १० तन्मतप्रक्रियापेक्षया। ११ ईश्वरस्य । १२ प्रथममेव । १३ ईप । १४ तदाधेयत्वं समवायः तादात्म्यं तत्रोत्कलितत्वमित्यादौ दूषणम् । १५ किञ्च । १६ ईश्वरे। १७ ईश्वरे समवेतं (समवायेन सम्बद्धं) ज्ञानद्वयं।
1 "समानकालयावव्यभाविसजातीयगुणद्वयस्थान्यत्रानुपलब्धेख्यम्बकेऽपि तत्कल्पनाया असंभवः । तथाच प्रयोगः-ईश्वरः समानकालयावद्व्यभाविसजातीयगुणद्वयस्याधारो न भवति द्रव्यत्वात्...घटवत् ।" स्या. रत्ना० पृ० २२८ ।
2"तदप्यर्थज्ञानमीश्वरस्य प्रत्यक्षमप्रत्यक्ष वा ? यदि प्रत्यक्षम् । तदा स्वतो ज्ञानान्तराद्वा ? स्वतश्चेत् ; प्रथममप्यर्थज्ञानं स्वतः प्रत्यक्षमस्तु किं विज्ञानान्तरेण ? यदि तु ज्ञानान्तरात्प्रत्यक्षं तदपीष्यते, तदा तदपि ज्ञानान्तरं किमीश्वरस्य प्रत्यक्षमप्रत्यक्ष बेति स एव पर्यनुयोगोऽनवस्थानं च दुःशक्यं परिहर्तुम् ।" प्रमाणप० पृ० ६० 3"किंचानयोनियोः पिनाकपाणेः सर्वथा भेदे कथं तदीयत्वसिद्धिः ?"
स्या० रता० पृ० २२८ । प्र. क. मा० १२ Jain Educationa International
www.jainelibrary.org
For Personal and Private Use Only