________________
सू० ११७] साकारज्ञानवादः
"अर्थेन घटयत्येनां न हि मुक्ता(क्त्वार्थरूपताम् । तस्मात्प्रमेयाँधिगते प्रमाण मेयरूपता॥”[प्रमाणवा० ३।३०५] इत्यनल्पतमोविलसितम्; यतो घंटयति सम्बन्धयतीति विवक्षितं ज्ञानम्, अर्थसम्बद्धमर्थरूपता निश्चाययतीति वा ? प्रथमपक्षोऽयुक्तः, न बर्थसम्बन्धो ज्ञानस्यार्थरूपतया क्रियते, किन्तु ५ खैकारणैस्तज्ज्ञानमर्थसम्बद्धमेवोत्पाद्यते । न खलु ज्ञानमुत्पद्य पश्चादर्थेन सम्बध्यात् । न चार्थरूपता ज्ञानस्यार्थे सम्बन्धकारणं तादात्म्याभावानुषङ्गात् । द्वितीयपक्षोप्यसम्भाव्यः; सम्बन्धासिद्धेः। न खलु ज्ञानगतार्थरूपता अर्थसम्बद्धन ज्ञानेन सहचरिता क्वचिदुपलब्धा येनार्थसम्बद्धं शानं सा निश्चाययेत् । विशिष्ट विष-१० योत्पाद एव च ज्ञानस्यार्थेन सम्बन्धः, न तु संश्लेषात्मकोऽस्य ज्ञानेऽसम्भवात् । स चेन्द्रियैरेव विधीयते इत्यर्थरूपतासाधनप्रयासो वृथैव । न चैव सर्वत्राँसौ प्रसज्यते; यतो निराकारत्वेप्यवबोधस्य इन्द्रियवृत्त्या पुरोवर्तिन्येवार्थे नियमितत्वान्न सर्वार्थघटनप्रसङ्गः। 'कस्मात्तैस्तत्र तेनियम्यते' ? इत्यत्र वस्तुस्वभावैरुत्तरं १५ वाच्यम् । न हि कारणानि कार्योत्पत्तिप्रतिनियमे पर्य¥योगमर्हन्ति तत्र तस्य वैफल्यात् । साकारत्वेपि चौयं पर्यनुयोगः समानः
१ अन्यत्सन्निकर्षादिकं कर्तृ । २ निर्विकल्पका बुद्धिम् । ३ यस्मात् । ४ प्रमाणं न घटयतीति सम्बन्धः । ५ बुद्धेः । ६ फलज्ञानस्य । ७ सम्बन्धित्वेन । ८ नैयायिकादिकल्पितम् । ९ ज्ञानस्यार्थरूपता । १० अर्थरूपता । ११ भा (१) । १२ की। १३ भा। १४ इन्द्रियादिभिः। १५ अर्थसम्बन्धज्ञानार्थरूपतयोः। १६ किञ्च । १७ अन्यथा। १८ अर्थरूपताशानयोः। १९ भा। २० पूर्वस्मिन्विकल्पे इत्यादि द्रष्टव्यम् । २१ बसः। २२ ईप् । २३ किञ्च । २४ ज्ञाने। २५ ज्ञाने । २६ अर्थरूपताभावे । २७ असन्निहितेऽप्यर्थे । २८ शानोत्पादलक्षणः सम्बन्धः । २९ व्यापारेण । ३० कारणात् । ३१ ज्ञानम् । ३२ पूर्वपक्षे। ३३ अस्माभिजनैः । ३४ आक्षेपम् । ३५ किञ्च ।
"अर्थेन घटयत्यनां न हि मुक्त्वार्थरूपताम् । अन्यत्स्वमेदो शानस्य भेदकोऽपि कथञ्चन ॥ ३०५॥
तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता।" प्रमाणवा० । 2 "किञ्च, घटयतीति सम्बन्धयति इत्यभिप्रतम् , अर्धसम्बद्धं निश्चाययति इति वा?"
न्यायकुमु० पृ० १७१ । । 3 "साकारत्वेऽपि चायं पर्यनुयोगः समानः । तथाहि-साकारमपि ज्ञानं किमिति नीलादिकमेव पुरोवति तत्सन्निहितमेव च व्यवस्थापयति ? तेनैव तथा तस्य जननादिति चेत् समानमेतन्निराकारेऽपि ।"
सन्मति० टी० पृ० ४६० । न्यायकुमु० पृ० १७१।
1
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org