________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० युक्तः, दर्पणादौ तथानुपलम्भात् । दीर्घवापवतश्च प्रबोधचेतसो जनकस्य जाग्रहशाचेतसो दूरत्वेनातीतत्वेन चात्रापि दूरातीतादिव्यवहारानुषङ्गः स्यात् ।
किञ्च, अर्थादुपजायमानं ज्ञानं यथा तस्य नीलतामनुकरोति ५तथा यदि जडतामपि; तर्हि जडमेव तत् स्यादुत्तरार्थक्षणवत् । अथ जडतां नानुकरोति; कथं तस्या ग्रहणम् ? तदग्रहणे नीलाकारस्याप्यग्रहणम् अन्यथा तयोर्भेदोऽनेकान्तो वा । नीलाकारग्रहणेपि च, अंगृहीता जडता कथं तस्येत्युच्येत ? अन्यथा गृहीतस्य स्तम्भस्यागृहीतं त्रैलोक्य(क्यं)रूपं भवेत् । तथा चैकोपलम्भो १० नैकत्वसाधनम् । अथ नीलाकारवजडतापि प्रतीयते किन्त्वतदा
कारेण ज्ञानेन, न; तर्हि नीलताप्यतदाँकारेणैवानेन प्रतीयताम् । तथाहि-यद्येन स्वात्मनोऽर्थान्तरभूतं प्रतीयते तत्तेनातदाकारेण यथा स्तम्भादेर्जाड्यम्, प्रतीयते च खात्मनोऽर्थान्तरभूतं नीलादिकमिति। किञ्च, नीलाकारमेव ज्ञानं जडतांप्रतिपद्यते, ज्ञानान्तरं १५वा ? आद्यविकल्पे नीलाकारतां खात्मभूततया, जडतां त्वेन्यथा
तज्जानातीत्यर्द्धरतीयन्यायानुसरणं ज्ञानस्य । अथ ज्ञानान्तरेण सा
१ पुरुषस्य । २ किञ्च । ३ ज्ञानस्य । ४ पुरुषस्य । ५ परिच्छित्तिः। ६ जडस्याग्रहणेपि नीलस्य ग्रहणं चेत् । ७ नीलजडयोः। ८ गृह्यमाणाऽगृह्यमाणधर्मावेकस्यास्यति च। ९ किञ्च। १० अगृहीतापि नीलस्य धर्मश्चेत्। ११ यतः। १२ शानम् । १३ किन्त्वनेकत्वसाधनम्। ४ विशेषे। १५ अजडाकारेण । १६ निराकारेण। १७ अनीलाकारेण । १८ नीलादिकं धर्मी अतदाकारेण ज्ञानेन प्रतीयते इति साध्यो धर्मः । तेन स्वात्मनोऽर्थान्तरभूततया प्रतीयमानत्वात् । १९ ज्ञानरूपात् । २० कर्तृ । २१ नीलाकारतया। २२ अजडाकारतया। २३ अस्यात्म( अस्वात्म )भूततया चेत् ।
___ 1 "न चाकाराधायकस्य दूरातीतत्वात्तथा व्यवहारः इत्यभिधातव्यम् ; जाय. च्चेतसो दूरातीतत्वेन प्रबोधचेतसि तथा व्यवहारप्रसङ्गात् ।" न्यायकुमु० पृ० १६९ ।
2 "अथ नीलतां तत्तदाकारतया प्रतिपद्यते जडतां त्वतदाकारतया तदिदमर्ष. जरतीयन्यायानुसरणम् ।"
न्यायकुमु० पृ० १६८। - "अर्ध जरत्याः कामयन्ते अर्ध नेति ।" पात० महाभाष्य ४।११७८ । "अर्थ मुखमात्रं वृद्धायाः कामयते नाङ्गानि सोऽयमर्धजरतीयन्यायः ।"
ब्रह्मसू० शा० भा० रत्नप्रभा १।२।८ । 3 "अर्थेन सर्वात्मना तत्र स्वाकाराधाने ज्ञानस्य जडताप्रसक्तेः उत्तरार्थक्षणवत् ।"
शास्त्रवा० टी० पृ० १५९ पू० ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org