________________
सू० ११५] ब्रह्माद्वैतवादः विद्यां प्रशमयेत् ? बाध्यबाधकभावश्च सतोरेव अहिनकुलवत्, न त्वसतोः शशाश्वविषाणवत् । दैवरक्ता हि किंशुकाः केन रज्यन्ते नाम । विद्यमानमेव हि रजो रजोन्तरस्य स्वकार्य कुर्वतः साम
र्थ्यापनयनद्वारेण बाधकं प्रसिद्धम् , विषद्रव्यं वा उपयुक्तविषद्रव्यसामर्थ्यापनयने चरितार्थत्वादन्नमलादिसदृशतया न कार्या-५ न्तरकरणे तत्प्रभवतीति । न च मेदस्योच्छेदो घटते; वस्तुखभावतयाऽमेदवत्तस्योच्छेत्तुमशक्तेः।
ननु स्वप्नावस्थायां भेदाभ वेऽपि भेदप्रतिभासो दृष्टस्ततो न पारमार्थिको भेदस्तत्प्रतिभोसो वा; इत्यभेदेपि समानम् । न खलु तदा विशेषस्यैवाभावो न पुनस्तयापकसामान्यस्य; अन्यथा कूर्म-१० रोमादीनामसत्वेपि तद्यापकस्य सामान्यस्य सत्त्वप्रसङ्गः । कथं च स्वप्नावस्थायां मेदस्यासत्त्वम् ? बाध्यमानत्वाञ्चेत् । तहि जाग्रवस्थायां तस्याबाध्यमानत्वात् सत्त्वमस्तु । एकत्रास्य बाध्यमानत्वोपलम्भात्सर्वत्रासत्त्वे च स्थाण्वादौ पुरुषप्रत्ययस्य बाध्यमानत्वेनासत्यतोपलम्भात् आत्मन्यप्यसत्यत्वप्रसङ्गः । ततो १५, जाग्रवस्थायां स्वप्नावस्थायां वा यत्र बाधकोदयस्तदसत्यम् , यत्र तु तदभावस्तत्सत्यमभ्युपगन्तव्यम् । - नेनु बाधकेन ज्ञानमपह्रियते, विषयो वा, फलं वा ? न तावद् झानस्यापहारो युक्तः, तस्य प्रतिभातत्वात् । नापि विषयस्य; अत एव । विषयापहारश्च राज्ञां धर्मो न ज्ञानानाम् । फलस्यापि स्नान-२० पानावगाहनादेः प्रतिभातत्वान्नापहारः । बाधैकमपि ज्ञानम् , अर्थो वा ? ज्ञानं चेत् तत्किं समानविषयम्, भिन्नविषयं वा? तत्र
१ स्वपररूपश्रवणमननादिलक्षणाऽविद्ययोः। २ असत्योरविद्ययोर्वाध्यबाधकभावः स्थादित्युक्ते आह । ३ यथा दैवरक्ताः किंशुकाः केनापि न रज्यन्ते तथा असत्योर. विधयोर्बाध्यबाधकभावः केनापि कर्तुं न शक्यत इत्यभिप्रायः। ४ न केनापि । ५ कालुण्यलक्षणं स्वकार्य । ६ कालुष्यजननसामर्थ्य:(थ्य)। ७ निराकरण। ८ मरणमूर्छादि । ९ किञ्च । १० अथकत्वं प्रत्यक्षेणैव प्रतिपन्नम् । ११ घटपटादीनाम् । १२ भेदशानं । १३ भेदस्य । १४ विशेषाभावे सामान्यसत्त्वं यदि । १५ रोमत्वस्य । १६ मरीचिकाचक्रे जलमिति शाने । १७ महादादौ। १८ प्रमाणेन । १९ इदं जलमिति ज्ञानस्य । २० जलादिलक्षण। २१ उत्तरम् । २२ उत्तरम् ।
1 "किं पुनरत्र व्यभिचारि किमर्थः, आहो ज्ञानमिति ?” न्यायवा० पृ० ३७ । "अथ बाध्यमानत्वेन मिथ्यात्वमिति चेत् ; किं बाध्यते अर्थः, शानम् , उभयं वा ?... अथ शानं बाध्यते; तस्यापि बाधा का ? स्वरूपव्यावृत्तिरूपा, स्वरूपापहवरूपा, विषयापहारलक्षणा वा ?" तत्वोप० पृ० १९-२१ । स्या० रत्ना० पृ० १३९ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org