________________
मलमात्तण्ड
प्रमेयकमलमार्तण्डे [प्रथमेपरि० न हि घटप्रागभावः कार्यमुत्पादयन्दृष्टः । केवलं घटवत् प्रागभावविनाशमन्तरेण तत्त्वज्ञानलक्षणं कार्यमेवं नोत्पद्येत । अथ न भेदज्ञानं तस्याः कार्यम् , किं तर्हि ? भेदज्ञानखभावैवासौ, तन्न एवं सति प्रागभावस्य भावान्तरखभावतानुषङ्गात् । न च ज्ञानस्य ५भेदाभेदग्रहणकृता विद्येतरव्यवस्था, संवादविसंवादकृतत्वात्तस्य सत्येतरत्वव्यवस्थायाः । संवादश्च भेदाभेदज्ञानयोर्वस्तुभूतार्थग्राहकत्वात्तुल्य इत्युक्तम् ।
यदप्युक्तम्-'भिन्नाभिन्नादिविचारस्य च वस्तुविषयत्वात्' इत्यादिः तत्राविद्यायाः किमवस्तुत्वाद्विचारागोचरत्वम्, विचा१० रागोचरत्वाद्वाऽवस्तुत्वं स्यात् ? न तावद्यद्यवस्तु तत्तद्विचारयितुमशक्यम् ; इतरेतराभावादेरवस्तुत्वेऽपि 'इदमिर्थम्' इत्यादिशाब्दप्रतिभासलक्षणविचारविषयत्वात् । नापि विचारागोचरत्वेनावस्तुत्वम् ; इक्षुक्षीरादिमाधुर्यतारतम्यस्य तजनितसुखादि
तारतम्यस्य वा 'इदमित्थम्' इति परस्मै निर्देष्टुमशक्यत्वेपि १५ वस्तुरूपत्वप्रसिद्धः । किञ्च, अयं भिन्नाभिन्नादिविचारः प्रमाणम्,
अप्रमाणं वा? यदि प्रमाणम् । तेनाविषयीकृतायाः कथमविद्यायाः सत्त्वम् ? तदसत्त्वे च कथं मुमुक्षोस्तदुच्छित्तये प्रयासः फलवान् ? अथाप्रमाणम्। कथं तर्हि तस्य वस्तुविषयत्वम् ? यतो 'भिन्नाभिन्नादिविचारस्य वस्तुविषयत्वात्' इत्यभिधानं शोभेत । २० यञ्चोक्तम्-'यथा रजोरजोन्तराणि' इत्यादि; तदप्यसमीचीनम् । यतो बाध्यबाधकभावाभावे कथं श्रवणमननादिलक्षणाऽविद्याऽ
१ अविद्याविनाशमन्तरेण । केवलं यथा घटप्रागभावो घटप्रागभावविनाशरूपकार्य मन्तरा घटपटादिरूपं कार्य नोत्पादयितुमलं तथा विद्याप्रागभावरूपैवाविद्या विद्याप्रागभावविनाशमेव कार्य कर्तुं समर्था न च विद्यारूपं भेदरूपं वा कार्यमुत्पादयितुं समर्थेत्यर्थः। २ अविद्याया भेदज्ञानस्वभावत्वे । ३ भेदशान । ४ विकल्पस्य । ५ खरशृङ्गवत् । ६ इतरस्मिन्नितरस्याभावः इतरेतराभावः । यदभावे नियमेन कार्यस्योत्पत्तिः स प्रागभाव श्तीदृशम् । ७ प्रतिपाद्याय। ८ यदि । ___ 1 "यत्पुनरविद्यैव विद्योपाय इत्यत्र दृष्टान्तपरम्परोद्धाटनं कृतं तदपि क्लेशाय नार्थसिद्धये । सर्वत्र उपायस्य स्वरूपेण सत्त्वादसतः खपुष्पादेरुपायत्वाभावात् । रेखागकारादीनां तु वर्णरूपतया सत्त्वं यद्यपि नास्ति तथापि स्वरूपतो विद्यन्त एव ।" न्यायमं० पृ० ५३० । सन्मति० टी० पृ० २९५ ।
“यचोक्तं यथैव हि रजःसम्पर्ककलुषेऽम्भसि इत्यादिः तदपि फल्गु; यतो बाध्यबाधकभावाभावे कथं श्रवणमननादिलक्षणाविद्याऽविद्यान्तरं प्रशमयेत् ?" स्या. रत्नाक पृ० २०४।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org