________________
सू० ११५]
अपूर्वार्थत्वविचारः
सिंद्धः । शातश्चेत्-कि पूर्वज्ञानेन, उत्तरज्ञानेन वा ? न तावत्पूर्वज्ञानेनोत्तरकालभावी बाधाविरहो शातुं शक्यः; तद्धि खसमानकालं नीलादिकं प्रतिपद्यमानं कथम् 'उत्तरकालमप्यत्र बाधकं नोदेष्यति' इति प्रतीयात् ? पूर्वमनुत्पन्नबाधकोनामप्युत्तरकाल बाध्यमानत्वदर्शनात् । नाप्युत्तरज्ञानेनासौ ज्ञायते; तदा प्रमाण-५ त्वाभिमतानस्य नाशात् । नष्टस्य च बाधाविरहचिन्ता गतसर्पस्य घृष्टिकुट्टनन्यायमनुकरोति । कथं च बाधाविरहस्य शायमानत्वेपि सत्यत्वम्। ज्ञायमानस्यापि केशोण्डुकादेरसत्यत्वदर्शनात् ? तज्ज्ञानस्य सत्यत्वाञ्चेत्। तस्यापि कुतः सत्यता? प्रमेयसत्यत्वाच्चेत्; अन्योन्याश्रयः। अपरबाधाभावज्ञानाञ्चेत् ; अनवस्था। अथ संवादा-१० दुत्तरकालभावी बाधाविरहः सत्यत्वेन ज्ञायते; तर्हि संवादस्याप्यपरसंवादात्सस्यत्वसिद्धिस्तस्याप्यपरसंवादादित्यनवस्था । किञ्च, कैचित्कदाचित्कस्यचिद् बाधाविरहो विज्ञानप्रमाणता हेतुः, सर्वत्र सर्वदा सर्वस्य वा? प्रथमपक्षे कस्यचिन्मिथ्याशानस्यापि प्रमाणताप्रसङ्गः,कचित्कदाचित्कस्यचिद्वाधाविरहसद्भावात् । सर्वत्र सर्वदा १५ सर्वस्य बाधाविरहस्तु नासर्वविदां विषयः।
अदुष्कारणारब्धत्वमप्यज्ञातम् , ज्ञातं वा तद्धेतुः ? प्रथमपक्षोऽयुक्तः, अज्ञातस्य सत्त्वसन्देहात् । नापि ज्ञातम्; करणकुशलादेरतीन्द्रियस्य शप्तेरसम्भवात् । अस्तु वा तज्ज्ञप्तिः, तथाप्यसौ अदुष्टकारणारब्धः ज्ञानान्तरात्, संवादप्रत्ययाद्वा? आद्यविकल्पे २० अनवस्था । द्वितीयविकल्पेपि संवादप्रत्ययस्यापि ह्यदुष्टकारणारब्धत्वं तथाविधादन्यतो ज्ञातव्यं तस्याप्यन्यत इति । न चानेकान्त
१ न यज्ञातमस्तीतिवक्तुं शक्यं तस्याऽज्ञातत्वविरोधात् । २ शुक्तिकादौ । ३ प्रमाणं। ४ काल । ५ ज्ञानानां। ६ पूर्वस्येदं जलमिति ज्ञानस्य । ७ किञ्च । ८ पूर्वकाले। ९ उत्तरकाले। १० पूर्वज्ञानापेक्षया। ११ विषये। १२ पूर्व । १३ पूर्वविज्ञानप्रमाणताहेतुः। १४ इन्द्रियदृष्टादि । १५ परिज्ञानस्य । १६ अदृष्टकारणारब्धत्व । १७ अनवस्था। १८ शानात् ।
१६
1 "बाधाविरहः किं सर्वपुरुषापेक्षया, आहोस्वित्प्रतिपत्रपेक्षया ?" तस्वोपप्लवसिंह लि. पृ० ३। अष्टसह० पृ० ३९ । प्रमाणप० पृ० ६२। सन्मति० टी० पू०.१०॥
2 "यपदुष्टकारकसन्दोहोत्पाद्यत्वेन; तदा सैव कारकाणामदुष्टता कुतोऽवसीयते ? बसावत्प्रत्यक्षात ; नयनकुशलादेः संवेदनकारणस्य अतीन्द्रियस्याऽदुष्टतायाः प्रत्यक्षीकर्तुमशक्तेः । नानुमानात्; तदविनाभाविलिङ्गाभावात्...” अष्टसह० पृ० ३८ । (तत्वोपप्लव०-) सन्मति० टी० पृ० १३ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org