SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ५९ सू० ११४,५] अपूर्वार्थत्वविचारः स्मृतिप्रमोषाभावः। ततः सूक्तम्-विपर्ययज्ञानस्य व्यवसायात्मकत्वविशेषणेनैव निरास इति।। तेनीपूर्वार्थविशेषणेन धारावाहिविज्ञानं निरस्यते । नन्वेवमपि प्रमाणसम्प्लववादिताव्याघोतः प्राणप्रतिपन्नेऽर्थे प्रमाणान्तराप्रतिपत्तिः, इत्यचोद्यम् ; अर्थपरिच्छित्तिविशेषसद्भावे तत्प्रवृत्तेर-५ प्यभ्युपगमात् । प्रथमप्रमाणप्रतिपन्ने हि वस्तुन्याकारविशेष प्रतिपद्यमानं प्रमाणान्तरम् अपूर्वार्थमेव वृक्षो न्यग्रोध इत्यादिवत्। एतदेवाह- . अनिश्चितोऽपूर्वार्थः ॥४॥ खरूपेणाकारविशेषरूपतया वानवगतोऽखिलोप्यपूर्वार्थः। १० दृष्टोपि समारोपात्तादृक् ॥५॥ न केवलमप्रतिपन्न एवापूर्वार्थः, अपि तु दृष्टोऽपि प्रतिपन्नोपि समारोपात् संशयादिसद्भावात् तादृगपूर्वार्थोऽधीतानभ्यस्तशास्त्रवत्। एवंविधार्थस्य यन्निश्चयात्मकं विज्ञानं तत्सकलं प्रमाणम्। तन्न अनधिंगतार्थाधिगन्तृत्वमेवे प्रमाणस्य लक्षणम् । तैद्धि १५ १ यतो विपर्ययज्ञानादिकं समर्थितम् । २ कारणेन। ३ भाट्टः शङ्कते । ४ बहूनां प्रमाणानामेकस्मिन्नर्थे प्रवृत्तिः प्रमाणसम्प्लवः । ५ जैनानां विरोधः । ६ प्रत्यक्षादि । ७ स्वच्छादिलक्षण। ८ अपूर्वः अर्थो यस्य । ९ स्वच्छादिमत्त्वेन । १० अशातः । ११ दृष्टोपि समारोपात्तादृगिति सूत्रम् । १२ अपूर्वस्य । १३ पूर्वाग्रहीतार्थग्राहि । १४ सर्वथा। । 1 विवेकाख्याति-अख्यात्यपरपर्यायस्यास्य स्मृतिप्रमोषस्य विविधरीत्या मीमांसान्यायवा० ता० टी० पृ० ८८, भामती पृ० १४, प्रश० कन्दली पृ० १८०, न्यायमं० पृ० १७६, विवरणप्रमेय सं० पृ० २८, न्यायलीलाव० पृ० ४१, तत्त्वोपप्लव लि. पृ० २५, न्यायकुमु० प्र० परि०, सन्मति ० टी० पृ० २८,३७२ । सा० रत्ना० पृ० १०४ इत्यादिषु समवलोकनीया। 2 "प्रभातुः प्रमातव्येऽर्थे प्रमाणानां सङ्करोऽभिसम्प्लवः ।" न्यायभा० १११३ पृ० १९ । 3 "उपयोगविशेषस्याभावे प्रमाणसम्प्लवस्याऽनभ्युपगमात् । सति हि प्रतिपत्तुरुपयोगविशेषे देशादिविशेषसमवधानाद् आगमात्प्रतिपन्नमपि हिरण्यरेतसं स पुनरनुमानाप्रतिपित्सते तत्प्रतिबद्धधूमादिविशेषसाक्षात्करणात्तत्प्रतिपत्तिविशेषघटनात् । पुनस्तमेव प्रत्यक्षतो बुभुत्सते तत्करणसम्बन्धात्तद्विशेषप्रतिभाससिद्धेः" । अष्टसह० पृ० ४ । 4 "औत्पत्तिकगिरा दोष: कारणस्य निवार्यते। - अबाधोऽव्यतिरेकेण स्वतस्तेन प्रमाणता ॥ १०॥ ...सर्वस्यानुपलब्धेऽथे प्रामाण्यं स्मृतिरन्यथा।" मीमांसाश्लो० पृ० २१ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy