________________
५८
प्रमेयकमलमार्तण्डे [प्रथमपरि० अतीतकालस्य स्पाष्टयेनाधिकस्य संवेदनं स इति चेत्, न तंत्र परमार्थतः स्पाष्ट्यसद्भावे अतीन्द्रियार्थवेदिनो निषेधो न स्यात्, तत्स्मृतिवत् अन्यस्यापीन्द्रियमन्तरेण वैशद्यसम्भवात् । अर्थात्र पारम्पर्येणेन्द्रियादेव वैशद्यम् ; न; तदविशेषात्सर्वस्यास्तत्प्रस५ङ्गात् । अथानुभवेन सह क्षीरोदकवदविवेकेनोत्पादोऽस्याः प्रमोषः। ननु कोयमविवेको नाम-भिन्नयोः सतोरभेदेन ग्रहणम् , संश्लेषो वा, आनन्तर्येण उत्पादो वा ? प्रथमपक्षे विपरीतख्यातिरेव । संश्लेषस्तु ज्ञानयोर्न सम्भवत्येव, अस्य मूर्त्तद्रव्येष्वेव प्रतीतेः।
आनन्तर्येणोत्पादस्य स्मृतिप्रमोषरूपत्वे अनुमेयशब्दार्थेषु देवद१० त्तादिज्ञानानां स्मरणानन्तरभाविनां स्मृतिप्रमोषताप्रसङ्गः स्यात् ।
यदि च द्विचन्द्रादिवेदनं स्मरणम् , तहीन्द्रियान्वयव्यतिरेकानुविधायि नस्यात्, अन्यत्र स्मरणे तर्दृष्टेः । तदनुविधायि चेदम् , ..., अन्यथा न किञ्चित्तदनुविधायि स्यात् । तद्विकारविकारित्वं चीत
एव दुर्लभं स्यात् । किञ्च, स्मृतिप्रमोषपक्षे बाधकप्रत्ययो न १५स्यात्, स हि पुरोवर्त्तिन्यथै तत्पैतिभासस्यासद्विषयतामादर्शयन् 'नेदं रजतम्' इत्युल्लेखेन प्रवर्तते, न तु 'रजतप्रतिभासः स्मृतिः' इत्युल्लेखेन । स्मृतिप्रमोषाभ्युपगमे च स्वतःप्रामाण्यव्याघातः, सम्यग्रजतप्रतिभासेऽपि ह्याशङ्कोत्पद्यते 'किमेष स्मृतावपि स्मृतिप्रमोषः, किं वा सत्यप्रतिभाँसे' इति, बाधकाभावापेक्षणात्२० यत्र हि स्मृतिप्रमोषस्तत्रोत्तरकालमवश्यं बाधकप्रत्ययो यत्र तु तभावस्तत्र स्मृतेः प्रमोषासम्भवः । बाधकाभावापेक्षायां चौनवस्था । तस्मात् 'इदं रजतम्' इत्यत्र ज्ञानद्वयकल्पनाऽसम्भवा
... १ रजतस्मृतौ । २ सर्वशस्य । ३ रजत । ४ संवेदनस्य । ५ स्मृतिविषयं रजतमतीन्द्रियम् । ६ रजतस्मरणे । ७ इति चेत् । ८ प्रत्यक्षस्मरणयोः । ९ सम्बन्धः । १० अनुमेयार्थोऽग्यादिः । ११ असन्निहितार्थग्राहकशानस्य स्मृतित्वमितिस्थिती दूषणम् । १२ किञ्च । १३ घटादौ। १४ तदप्रतीतेः। १५ घटादिशानं प्रत्यक्षं । २६ इन्द्रिय। १७ काचादि । १८ ता (षष्ठी)। १९ द्विचन्द्रादि। २० झानस्य । २१ तस्य काचकामलादिना द्विचन्द्रादिग्राहित्वेन परिणामित्वम् । २२ इन्द्रियान्वयव्यतिरेकानुविधायित्वाभावादेव द्विचन्द्रशानस्य स्मरणत्वादेव वा । २३ शुक्तिकाशकले। २४ रजत । २५ उत्तरकाले । २६ परेण । २७ शाने । २८ रजतस्य । २९ एतदेव भावयति । ३० ज्ञाने । ३१ किञ्च । ग्रन्थानवस्था । . . . . . . . . . . . .
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org