________________
सू० १११] ज्ञातृव्यापारविचारः
किश्चासौ ज्ञातृव्यापारः कारकैर्जन्यः, अजन्यो वा ? यद्यजन्यः; तदासावभावरूपः, भावरूपो वा? प्रथमपक्षोऽयुक्तः, तस्याभावरूपत्वेऽर्थप्रकाशनलक्षणफलजनकत्वविरोधात् । विरोधे वा फलार्थिनः कारकान्वेषणं व्यर्थम् , तत ऍवाभिमतफलसिद्धेर्विश्वमदरिद्रं च स्यात् । अथ भावरूपोऽसौ; तत्रापि किं नित्यः, अनित्यो वा?५ न तावन्नित्यः; अन्धादीनामप्यर्थदर्शनप्रसङ्गात् सुप्तादिव्यवहाराभावः सर्वसर्वज्ञताप्रसङ्गः कारकान्वेषणवैर्यर्थ्य च स्यात् । अथा. नित्यः; तदयुक्तम् ; अजन्यस्वभावभावस्यानित्यत्वेन केनचिदंप्यनभ्युपगमात् । भवतु वाऽनित्यः, तथाप्यसौ कालान्तरस्थायी, क्षणिको वा ? न तावत्कालान्तरस्थायी; __ "क्षणिका हि सा न कालान्तरमवतिष्ठते" [शावरभा०] इति वचसो विरोधप्रसङ्गात् । कारकान्वेषणं चापार्थकम्-तत्कालं यावत्तत्फलस्यापि निष्पत्तेः । क्षणिकत्वे; विश्वं निखिलार्थप्रतिभासरहितं स्यात् क्षणानन्तरं तस्यासत्त्वेनार्थप्रतिभासाभावात् । द्वितीयादिक्षणेषु स्वत एवात्मनो व्यापारान्तरोत्पत्तेर्नायं दोषः, १५ इत्यप्यसङ्गतम्; कारकानायत्तस्य देशकालस्वरूपप्रतिनियमायोगात् । किञ्च अनवरतव्यापाराभ्युपगमे तजन्यार्थप्रतिभासस्यापि तथा भौवात् तदवस्थः सुप्ताद्यभावदोषानुषङ्गः। तन्नाऽजन्योऽसौ।
नापि जन्यः; यतोऽसौ क्रियात्मकः, अक्रियात्मको वा ? प्रथमपक्षे किं क्रिया परिस्पन्दात्मिका, तद्विपरीता वा ? तत्राद्यः पक्षो-२० ऽयुक्तः, निश्चलस्यात्मनःपरिस्पन्दात्मकक्रियाया अयोगात् । नापि द्वितीयः; तथाविधक्रियायाः परिस्पन्दाभावरूपतया फलजनकत्वायोगात्, अभावस्य फलजनकत्वविरोधात्। न चासौ परिस्पन्दस्वभावा तद्विपरीता वा-कारकफैलान्तरालवर्तिनी प्रमाणतः प्रतीयते । तन्न क्रियात्मको व्यापारः। नापि तद्विपरीतः; अक्रियात्मको २५ हि व्यापारो बोधरूपः, अबोधरूपो वा? बोधरूपत्वे, प्रमातृवत्प्रमा
१ खरविषाणादौ। २ आकाशादौ। ३ किञ्च । ४ अभावरूपव्यापारादेव । ५ जगत् । ६ सहकारिकारणैनित्यस्यानुपकार्यत्वात् । ७ प्रागभावाद् व्यभिचारमाशय भावशब्दः प्रयुक्तः । ८ पदार्थस्य । ९ वादिना नरेण । १० ज्ञातृव्यापाररूपा क्रिया। ११ शातृव्यापार। १२ परः। १३ पुरुषस्य । १४ शातृव्यापारस्य । १५ परैः । १६ सर्वदाभावात्। १७ किश्च । १८ प्रमाता । १९ अर्थप्रकाश । २० शातव्यापारलक्षणा।
1 'क्षणिका हि सा न बुद्धयन्तरकालमवस्थास्यते' शाबरभा० पृ०७।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org