________________
प्रमेयकमलमार्तण्डे . [प्रथमपरि० वानुपलम्भस्यैवंविधे विषये व्यापाराभावात् , एकज्ञानसंसर्गिपदोर्थान्तरोपेलम्भरूपत्वात्तस्य । न च ज्ञातृव्यापारेण सह कस्यचिदेकज्ञानसंसर्गित्वं सम्भवतीति । नापि द्वितीयः; सिद्धे हि कार्यकारणभावे कारणानुपलम्भः कार्याभावनिश्चायकः । न च ज्ञातृ५व्यापारस्य केनचित् सह कार्यत्वं निश्चितम् । तस्यादृश्यत्वात् । प्रत्यक्षानुपलम्भनिबन्धनश्च कार्यकारणभावः।तत एव केनचित्संह व्याप्यव्यापकभावस्यासिद्धेन व्यापकानुपलम्भोऽपि तनिश्चायकः। विरुद्धोपलम्भोपि द्विधा भिद्यते विरोधस्य द्विविधत्वात्; तथा हि-को(एको) विरोधोऽविकलकारणस्य भवतोऽन्यभावेऽभावा१०त्सहानवस्थालक्षणः शीतोष्णयोरिव, विशिष्टात्प्रत्यक्षान्निश्चीयते ।
न च प्रकृतं साध्यमविकलकारणं कस्यचिद्भावे निवर्तमानमुपलभ्यते; तस्यादृश्यत्वात् । द्वितीयस्तु परस्परपरिहारस्थितिलक्षणः। सोप्युपलभ्यस्वभावभावनिष्ठत्वात्प्रकृतविषये न सम्भवति । - किश्चानुपलम्भोऽभावप्रमाणं प्रमाणपञ्चकविनिवृत्तिरूपम् । तच्च १५शातमेवाभावसाधकम् ; कृतयत्तस्यैव प्रमाणपञ्चकविनिवृत्तेरभावसाधकत्वोपगमात् । तदुक्तम्
गत्वा गत्वा तु तान्देशान् यद्यर्थो नोपलभ्यते । तेदान्यकारणाभौवादसन्नित्यवगम्यते ॥
[मीमांसाश्लो० वा० अर्था० श्लो० ३८] २० तज्ज्ञानं चान्यस्मादभावप्रमाणात्, प्रमेयाभावाद्वा ? तत्राद्यपक्षेऽनवस्थाप्रसङ्गः-तस्याप्यन्यस्मादभावप्रमाणात्परिज्ञानात्। प्रमेयाभावात्तज्ज्ञाने च-इतरेतराश्रयत्वम् ।
१ अत्यन्तपरोक्षे । २ घटेन सह प्रतिषेध्याधारभूतभूतलम् । ३ यदि भूतलाधारतयापि विद्येत तदा प्रत्यक्षेणैव लभ्येत । ४ आत्मनः। ५ शातृव्यापारलक्षण । ६ कारणेन । ७ अन्वयः व्यतिरेकः (प्रत्यक्षेणान्वयव्यतिरेकनिबन्धनः)। ८ शातव्यापारस्यादृश्यत्वादेव । ९ आत्मादिव्यापारस्य । १० शातृव्यापाराभाव । ११ ता । १२ शीतकालादेः। १३ जायमानस्य । १४ बहि। १५ ज्ञातृव्यापाररूपं । १६ विरोधिनः। १७ शातुर्व्यापारस्य । १८ विरोधः । १९ ज्ञेय । २० अर्थानुपलम्भकाले । २१ इन्द्रियाभावस्यालोकाभावस्य च कारणस्य । २२ आद्यप्रमाणपञ्चकाभावस्य प्रथमप्रमाणपञ्चकविषयप्रमाणपञ्चकाभावात् परिशानं तस्यापि प्रमाणात् ................. .............द्वितीयस्याद्वितीयप्रमाणपञ्चकविषयप्रमाणपञ्चकाभावात् परिशानं तस्याप्येवमित्यादि प्रकारेण । २३ सिद्धे हि प्रमेयाभावे अभावप्रमाणपरिशानं सिध्यति तत्सिद्धौ च प्रमेयाभावसिद्धिरिति ।
1 तु०-अविकलकारणस्य भवतः" इत्यादि-न्यायवि० पू० ९६ । Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org