________________
१४
प्रमेयकमलमार्तण्डे
[प्रथमपरि०
मा भूत् कारकसाकल्यस्यासिद्धस्वरूपत्वात् प्रामाण्यं सन्निकर्षादेस्तु सिद्धस्वरूपत्वात्प्रमित्युत्पत्तौ साधकतमत्वाच्च तत्स्यात् । सुप्रसिद्धो हि चक्षुषो घटेन संयोगो रूपादिना (संयुक्तसमवायः रूपत्वादिना)संयुक्तसमवेतसमवायो ज्ञानजनकः। साधकतमत्वं ५च प्रमाणत्वेन व्याप्तं न पुननित्वमज्ञानत्वं वा संशयादिवत्प्रमे यार्थवञ्च, इत्यसमीक्षिताभिधानम् ; तस्य प्रमित्युत्पत्तौ साधकतमत्वाभावात् । यद्भावे हि प्रमितेर्भाववत्ता यदभावे चाभाववत्ता तेत्तत्र साधकतमम्।
"भावाभावयोस्तद्वत्ता साधकतमत्वम्" [ १० इत्यभिधानात्।
न चैतत्सन्निकर्षादौ सम्भवति । तद्भावेऽपि क्वचित्प्रेमित्यनुत्पत्तेः; न हि चक्षुषो घटवदाकाशे संयोगो विद्यमानोऽपि प्रमित्युत्पादकः, संयुक्तसमवायो वा रूंपादिवच्छब्दरसादौ, संयुक्त
समवेतसमवायो वा रूपत्ववच्छब्दत्वादौ । तदभावेऽपि च १५विशेषणज्ञानाद्विशेष्यप्रमितेः सद्भावोपगमात् । योग्यताभ्युपगमे सैवास्तु किमनेनान्तर्गडुनी ?
१ परः । २ लिङ्गशब्द। ३ द्रव्यत्वकर्मसामान्य। ४ गुणत्वकर्मत्व। ५ प्रमितौ। ६ सतोः। ७ यस्य तस्य तत्र । ८ आदिपदेन शब्दलिङ्ग । ९ नभसि । १० गगन. मिति प्रमितेः। ११ कर्म । १२ रसत्वस्पर्शत्वादि । १३ सन्निकर्ष । १४ दण्ड । १५ दण्डोऽस्यास्तीति तस्मिन् दण्डिनि । १६ सन्निकर्षस्य शक्ति। १७ यद्यपि घटाकाशयोर विशिष्टश्चक्षुषः सन्निकर्षोऽस्ति तथापि योग्यतावशाद् घट एक प्रमिति जनयेन्नाकाशे इति सन्निकर्षशत्त्यभ्युपगमे। १८ सन्निकर्षेण । १९ ग्रन्थिना (व्रणेन)। ___ अस्य च सामग्र्यपरनामकस्य कारकसाकल्यस्य विविधरीत्या खंडनं निम्नग्रन्थेषु द्रष्टव्यम्-न्यायकु० चं० लि. परि० १। सन्मति० टी० पृ० ४७३ । स्या० रत्नाकर पृ०६५।
प्रस्तुतग्रंथगतखंडने (पृ० ११ पं० ८) आयातस्य ‘सहकारिणो हि भावाः किं विशेषाधायित्वेन एकार्थकारित्वेन वाऽभिधीयन्ते' इत्याग्रंशस्य तुलना अर्चटकृत-हेतुबिन्दुटीकायाः-'नैयायिकास्तु मन्यन्ते भावानां सहकारिसन्निधानाऽसन्निधानापेक्षया कारकस्वभावव्यवस्था...' (पृ० १५० ) इत्यायंशेन विधेया।
1 यद्यपि सन्निकर्षस्य सामान्यतो निर्देशः कणाद-न्यायसूत्र तद्भाष्ययोरपि समस्ति तथापि तस्य प्रक्रियाबद्धं विवरणं षोढा तद्भेदनिरूपणं च न्यायवा० पृ० ३१ तथा पृ० ३७३ । न्यायवा० ता० टी० पृ० ११६ तथा पृ० ५२० । न्यायमं० पृ० ४७७ । प्रश० कन्द० पृ० २३ तथा १९५ । इत्यादिषु द्रष्टव्यम् ।।
2 'कः खलुसाधकतमार्थः ? साधकतमं प्रमाणमिति केवलं वाक्यमभिधीयते नार्थः इति ? भावाऽभावयोस्तद्वत्ता' न्यायवा० पृ० ६।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org