________________
सू० १1१ ] .
कारकसाकल्यवादः
अन्योऽन्याश्रयश्च - सिद्धे हि साकल्ये तेषां सकलरूपतासिद्धिः, तत्सिद्धौ च साकल्यसिद्धिरिति । नाप्यसकलान्यतिप्रसक्तेः । किञ्च यया प्रत्यासत्या तथाविधान्येतानि साकल्यमुत्पादयन्ति तयैव प्रमामप्युत्पादयिष्यन्तीति व्यर्थ साकल्यकल्पना । कैरणमन्तरेण प्रमोत्पत्त्यभावे साकल्येऽप्यन्यत् करणं कल्पनीयमित्यन- ५ वस्था । न चाध्यक्षसिद्धत्वात्साकल्यस्यादोषोऽयम्; आत्मान्तःकरणसंयोगादेरतीन्द्रियस्याध्यक्षाऽविषयत्वात् । केवलं विशिष्टार्थोपलब्धिलक्षणकार्यस्याऽध्यक्ष सिद्धस्य करणमन्तरेणानुपपत्तेस्तत्परिकल्पना, तंच मैनोलक्षणकरणसद्भावे साकल्यमेवेत्यव - धारयितुं न शक्यम् । तन्न सकलकारककार्य साकल्यम् । १०.
नापि पदार्थान्तरं सर्वस्य पदार्थान्तरस्य साकल्यरूपताप्रसङ्गात् । तथा च तत्सद्भावे सर्वत्र सर्वदा सर्वस्यार्थोपलब्धिरिति सर्वः सर्वदर्शी स्यात् । ततः कारकसाकल्यस्य स्वरूपेणाऽसिद्धेः सिद्धौ वा ज्ञानेन व्यवधानान्न प्रामाण्यम् ॥ छ ॥
१३
१ स्वभावेन । प्रत्यासत्तिः स्वभावः । २ कारकाणि । ३ परः । ४ साकल्यस्य । ५. पुनः । ६ ज्ञान । ७ अर्थापत्तिप्रमाणम् । ८ श्रेयसी ( मन्यते ) । ९ अर्थापत्तिप्रमाणप्रसिद्धं करणं । १० भावमनो । ११ प्रमितिरूपः पदार्थः । १२ नुः । १३ सर्व पदार्थान्तरसाकल्यरूपप्रमाणत्वात् ।
1 कारकसाकल्यस्य स्वरूपं तावत् सामग्रीप्रमाणवादी जयन्तभट्टः इत्थं निरूपयति ‘अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धि विदधती बोधाबोधस्वभावा सामग्री प्रमाणम् । बोधाबोधस्वभावा हि तस्य स्वरूपम् अव्यभिचारादिविशेषणार्थोपलब्धिसाधनत्वं लक्षणम्' (न्यायमं० पू० १२ )
सामग्री च कारकसाकल्यस्यैव व्यपदेशान्तरम्, अतएवायं कारकसाकल्यवाद : 'सामग्रीप्रमाणवादः' इति शब्देनापि व्यपदिश्यते । तस्य च साधिका मुख्या युक्तिः इत्थम् —'यत एव साधकतमं करणम् करणसाधनश्च प्रमाणशब्दः, तत एव सामग्र्याः प्रमाणत्वं युक्तम्, तद्व्यतिरेकेण कारकान्तरे क्वचिदपि तमबर्थसंस्पर्शानुपपत्तेः । अनेककारकसन्निधाने कार्यं घटमानम् अन्यतरव्यपगमे च विघटमानं कस्मै अतिशयं प्रयच्छेत् ? नचातिशयः कार्यजन्मनि कस्यचिदवधार्यते सर्वेषां तत्र व्याप्रियमाणत्वात् ' ( न्याय मं० पृ० १३ )
- सामग्रीप्रमाणवादस्य द्विधा उल्लेखो न्यायमंजर्यां दृश्यते । एकस्तावत् पूर्वोक्त एव द्वितीयस्तु प्रकार ः 'कर्त्तृकर्म विलक्षण संशय विपर्ययरहिताऽर्थबोधविधायिनी बोधाऽबोधस्वभावा सामग्री प्रमाणम्' इत्यादिरूपः 'अपरे पुनराचक्षते' इति कृत्वा तत्रैव ( पृ० १४ ) निर्दिष्टो दृश्यते ।
प्र० क० मा० २
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org