________________
श्री साधुवर्द्धन कृत श्री नगरकोट आदिनाथ स्तवनम्
(सं० १५६५ ) श्री नेमिनाथं भव ताप चन्दनं, प्रणम्य पावं मरुकोट्ट मण्डनम् । संघेन यात्रा विहिता हिता यथा, तथा तथा स्तौमि जिनेश्वरानहम् ॥१॥ उत्कण्ठया पञ्च विहार संस्थितान् नत्त्वा जिनान् भट्टिपुरे मनोरमान् ।। कृतार्थनं स्वं सुकृतैरनेकशः फलन्ति भाग्यौ खलु सन्मनोरथा ॥२॥ त्रिभाटिके निर्मल वारि वाहिनी-मुत्तीर्य नावा शतरिद्र निम्नगा। जालन्धरे चापि नगोदरे जिनान्, श्री बाजपाटे च नमामि भावतः॥३॥ प्राप्ता गतो नन्दवनं सुनौभि-स्ती, विभागा मिति तत्र वाहिनी। पद्माङ्ग मुत्तीर्य तथा परा पगा पातालगङ्गा मपि बाणगङ्गाम् ॥४॥ सपादलक्ष रिति संषया नगै वृत्ति सदाभिरैः विसानु भिस्स्मितः तरङ्गिणीनां मुख मेखु राजितैः पश्यन्तु राजतो हिमाचलम् ॥५॥ उच्चि रूचि दिशि दिशिमहा मानवः पव्वतौधा,
__ स्थाने स्थाने सरल-सरला पादपाः पुष्पगन्धां। पादो तीर्या पथि पथि तथा निझरा वारि सारा,
शीतो वात स्सुखयत मनुस्सन्मनोऽहंद्वचोवत् ॥६॥ एवं वहता माग्गं विनायको त्कालिका शिरस्थेन।।
श्री संघेन सुदृष्टं तीर्थं श्री नगरकोटाख्यम् ॥७॥ सहि सुख निवासः सर्व तीर्थावतंशो
जनयति च विनोदं लोचनै दृश्यमानः सय सुखयति मनांसि श्रेयसां सन्निवेशो भजतु नगरकोट्टं स्वं कृतार्थं कुरुष्वम् ॥ ८॥
[ ३१
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org