________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् पुनस्तत्र यथाशक्त्या विधीयतेस्म हर्षितैः । श्राद्धैः स्वधर्मिवात्सल्यं शिवसुखफलप्रदम् ।।३।। फाल्गुनमासशुक्लस्य तृतोयायां जयातिथौ। मध्याह्न योगनक्षत्रलमशुद्धि समन्विते ॥४०॥ श्री जिनचन्द्रसूरीन्द्रमहिमराजवाचकः । सूत्रोक्तविधिनाकारि-सूरिपद विभूषितः ।।४१।। युग्मम् । श्री साहि कथनात्सूरि-मन्त्रप्रदानपूर्वकम् । श्रीजिनसिंहसूर्याख्या तस्य सुगुरुणार्पिता ॥४२॥ तदैव जयसोमाय रत्ननिधान साधवे । उपाध्यायपदं दत्तं सूरिणा बुद्धिशालिने ॥४३।। गुरुणा वाचनाचार्य पदविभूषितौ कृतौ । श्रीगुणविनयाख्य श्री समयसुन्दरौ मुनी ॥४४॥ तदास्तम्भन तीर्थाब्धि-यादो हिंसा च साहिना । आवर्षन्त्याजितात्रैकंदिनमन्त्यं पुरेपुनः ॥४॥ समयेऽस्मिन् समायातान् दृष्टुं नन्दि महोत्सवम् । आबालवृद्धलोकांश्च श्रावकान् याचकानपि ।।४६।। सर्वेभ्यो हेममुद्राप्रदातु कामोपि धीसखः । रूप्यमुद्रव मांगल्यहेतुरित्युदितो जनैः ॥४७॥ ततः केशरकस्तूरी चन्दनाम्बु छटाद्भुताम् । रौप्यमुद्रां ददौ मन्त्री सर्वेभ्यो मानपूर्वकम् ॥४८|| याचकेभ्यः पुनमन्त्री नवग्रामान् गजान्नव । पश्चशतहयान्कोटि-द्रव्यं दानाग्रणीर्ददौ ॥४६॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org