________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् इगदानं न केनापि प्रदत्त प्राग पदोत्सवे । ख्यातिकरं ततः सर्वः संघो मन्त्रिगृहं ययौ । ५०॥ सचिवोऽपि तदा साहि-वाद्यवादनपूर्वकम् । स्वगृहागतसंघाय सन्मानमधिकं ददौ ।।५१॥ विशिष्टः पुरुषैः शेखाद्यबुलफजलादिभिः । वेष्टितः कर्मचन्द्राख्यमन्त्रीलात्वो पदांवराम् ॥५२॥ साहिनो मन्दिरं गत्वा सर्वाध्यक्षं पुरोदश। गजान्द्वादशवाजीन्द्रान् वासांसि विविधानि च ॥५३।। दश सहस्र रौप्यांश्च प्राभृती कृतवानिति । साह्यपिमङ्गलायकं रौप्यं तन्मध्यतो ललौ ॥४।। एवं शेखू सुरत्राण-पुरोऽपि विधृतोपदा । मंत्रीश्वरेण शेखाणामपिपुरः पुनः क्रमात् ।।५।। श्राद्धादीनामवर्णीया-नन्दोत्साह सुभक्तितः। अस्योत्सवस्यहन्नेत्रनिवृत्तिकारिणी वरा ॥५६॥ अत्यन्त दर्शनीया भूधाशोभाश्चर्यकारिणी। तां न वर्णयितुं शक्तस्तत्पश्यकोपि पार्यते ॥७॥ युग्मम् ॥ निर्विघ्नेन समाप्तं तत्सूरिपदमहोत्सवम् । श्रीशान्ति-स्नात्र दिग्पालादि विसर्जन पूर्वकम् ॥५८॥ सांवत्सरिचतुर्मासी-पाक्षिकानां प्रतिक्रमे । जयतिहुयण स्तोत्रं स्तुतिं च पठितुं सदा ॥६॥ गुरुणार्पितआदेशो बोहित्य वंश सन्ततः । एतैरपि स आदेशो दत्तः श्रीमाल सन्ततेः ।।६०।। युग्मम् ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org