________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् निर्वद्यान्न पानादि, ब्यवस्थाया विधानतः। तथा कार्षीन्महामात्यो, यथाधर्मः समेधतः ।।२६६॥ स्वयं तु साहि वाक्येन, रोहितासपुरे स्थितः। अवरोधस्य रक्षाय, विश्वास्यास्पद मीशितुः । २७०॥ मार्गेथ साहिना नित्यं, वाचकैः सह कुर्वता। धर्मवार्ता तडागादौ, जीवहिंसा निषेधिता ।।२७१।। क्रियाकाठिन्य मालोक्य, गृहीत व्रत निश्चयम् । तस्य प्रहर्षितः साही, स श्लाघे वाचकंचतं ॥२७१।। साही विजित्य काश्मीरान , श्रीनगरं समाययौ । वाचकोक्तः स तत्राष्टा-न्हममारि मपालयत् ।।२७३।। कुर्वन्दिग्विजयं शत्र , न्नामयन्माघ मासि च । क्रमाल्लाभषुरे पौर-कृत शोभे विशत्प्रभुः । २७४॥ विद्वद्भिर्जयसोमाख्य समयसुन्दरादिभिः । स्व शिष्यैः सह सूरीन्द्रा, द्रव्यक्षेत्रादिवेदिनः ॥२७॥ साहिनो मिलिता दत्त-धर्मलाभाशिषा वराः। साह्यपि सुगुरोः कृत्वा, दर्शनं मुदितो भवत् ।।२७६।। राजेश साह्यकबर प्रतिबोधकस्य
श्री जैन शासन समुन्नति कारकस्य । श्रीमज्जगद्गुरु सवाइ युगप्रधान
भट्टारकस्य चरिते जिनचन्द्रसूरेः ।।१।। इति श्री जिनचन्द्रसूरि युगप्रधान सद्गुरुचरिते। अकबर प्रतिबोधकरण वर्णनात्मक स्तृतीय सर्ग समाप्तः ।। -0--
[६१
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org