________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् राजानो ददते सौख्य. मस्य वाक्यस्य बुद्धिना। अश्वखाब्धि कराक्ष्यभ्रे-न्दु संख्यार्थ विधानतः॥२५८॥
युग्मम् ॥ . कदाचित्पुनरुक्त्यादि-दोषोद्भवो भवेत्ततः।। तन्मध्यादष्ट लक्ष्यार्थाः प्रकटाम्तेन रक्षिताः ॥२५॥ अर्थरत्नावली रन-मञ्जूषा चाष्टलक्षिका। इति नाम त्रयेणासौ, ग्रन्धःख्यातिं गतो जने ॥२६॥ तस्यां मंसदि माहीतं, ग्रंथं समयसुन्दरात् । अवाचयन्निशम्यैनं, संजहर्ष सभाजनाः ॥२६१।। समयसुन्दरस्यास्य, ग्रन्थस्य साहिना कृता। . बह्वी श्लाघा च विद्वद्भि राश्चर्यकौतुकांचितैः ॥२६२॥ सौभाग्य शालि निर्मातृ-समयसुन्दरस्यसः । हस्तेर्पितः स्वहस्तेन, साहिना जगदेपुनः ॥२६३॥ संश्लाघ्यो जैन साहित्य ग्रन्थोऽपूर्वोयमस्ति हि । कर्तव्योतः प्रचारोस्य, विलेख्यानेकशः प्रतीः ॥२६४।। ततो मंत्री निराबाधं, महिमराज वाचकम् । हर्षविशाल युक्तं चा, चालय माहिना समम् ॥२६॥ साहि निर्दिष्ट सावद्य-व्यापार परिशीलनात्। मुनीनां मा व्रताचार-विलोपो भवतादिति ॥२६६।। विभाव्यमंत्र तन्त्रादि-निपुणं दत्तवान्समम् । पश्चाननं महात्मानं, विनेयं मेघमालिनम् ।।२६७।। वासो गृहं तथात्मीयान् , भटान्साधूनुपासकान् । गुरु भक्तिचिकीः सार्थे, सयुक्त्या योजयत्तराम् ॥२६८।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org