________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम्
धर्मगोष्टी मिथः कत्तु , धतु जीवदया व्रजम् । अनार्यमार्यतां नेतं, देशं तीर्थनिवेशनात् ॥२४६।। मन्त्रिणापि तथेत्युक्ता, प्रोक्तं पूज्याय तद्वचः। गुरुणापि महालाभं, विज्ञाय मानितंतकम् ।।२५०।। नभः शुक्ल त्रयोदश्यां, प्रयाणकं नरेश्वरः। श्रीराजा रामदासस्य, वाटिकाया मचीकरत् ।।२५१॥ तत्र तस्मिन्दिने सन्ध्या-क्षणे चैका सभाजनि । तस्यां साही सलीमश्च, सामन्त मण्डलेश्वराः ।।२५२॥ . राजराजेश्वरानेक-वैयाकरण तार्किकाः। विद्वांसो मिलिता आसन् , सर्वविद्या बलोर्जिताः ॥२५३।।
युग्मम ॥ तस्यां सुगुरवोत्यन्त-मानसम्मानपूर्वकम् । आसन्निमन्त्रिताःस्वीय-शिष्य मण्डलिभिः समम् ।।२५४॥ किंचपुरा किलैकस्मिन् , समये साहि पर्षदि । विद्वगोष्टी वि तन्वत्सु विद्वत्सु, सर्वधार्मिकाम् ।।२५।। "एगस्स सुत्तस्स अणंतो अत्थोत्ति” एतस्मिन् जैन धर्मीय-वाक्ये प्राज्ञेन केनचित् । कृतोभूदुपहासस्त, द्वाक्यं श्रीगुरुणाश्रुतम् ।।२५६।। श्रीमहामहोपाध्याय-गणि समयसुन्दरः । तत्सूत्र वचनं सत्यी-चकार वर पण्डितः ।।२५७।।
५६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org