________________
'युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
सुगुरवस्त्वयाशीघ्र माह्वाथ्या वचसा मम । धर्मलाभो महास्तेषां, मया देयोस्ति वांछितम् ॥२३६।। सूरयोपि तदाहूता, ययुः श्री साहि सन्निधौ । श्री गुरोर्दर्शना देवा-नन्दितो भून्नराधिपः ।।२४०।। शुचिमासे शुचौ पक्षे, प्रसन्नो दिन सप्तकम् । नवमीतो ददौसाहि, रमारि गुण पावनम् ॥२४॥ द्वादशसुच सूबेषु, फरमानानि साहिना । अमारिदानसत्कानि, प्रत्यब्दं प्रेषितानि च ।।२४२।। साहिनोऽमारिदानस्थ, फुरमान प्रकाशनात् । अन्येषु सर्व भूपेषु, प्रभावः पतितो महान् ॥२४३॥ साह्यनुकरणं कृत्वा, स्व स्वदेशेषु भूमिपाः । दिनानामष्टककेचि, दशं पंचाधिकं दशं ।।२४४।। केचित्तु विंशतिपंच-विंशति मपरे पुनः । मासंमासद्वयं याव, जीवेभ्योह्य भयं ददुः ॥४५॥ येना भूत्साहिनो त्यन्त-हर्षो धर्म प्रभावना। निरपराधि जीवानां, मिलिता सुखशांतिता ॥२४६।। मे काश्मीर प्रवासेऽपि, श्री जैन मुनिभिः समम् । धमगोष्टी दयाधर्म-चर्चा भवतु सर्वदा ॥२४७|| ततोऽमात्याय निर्दिष्टं, पूज्यालाभपुरे पुरे। तिष्ठन्तु मानसिंहास्त्वा, यान्तु साकं मयाधुना ।।२४८॥
५८]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org