________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
सुवर्ण रत्न मुद्रादि-सारवस्तूनि सद्गुरोः । सन्मुखं ढोकयित्वा चा-कबरो जगाद सद्गुरो॥१७॥ गृहीत यूय मेतेभ्यः किमपिमय्यनुग्रहम् । कृत्वाथसुगुरुः प्राह, न स्तल्लातुन कल्पते ॥१७८।। गुरोनिर्लोभतां दृष्ट्वा, साही जहर्ष सद्गुरु । तमाराध्य गुरुत्वेन, स्थापयामास मानसे ॥१०६ ।। प्रासादाबहिरागत्या कबरो गुरुणा समं । प्राह प्रधान काज्यादि-सर्वसभाजनान्प्रति ।।१८०॥ इमे मुमुक्षवो जैना-चार्या धर्म धुरन्धराः। सन्ति गाम्भीर्य धैर्यादि-विशिष्ट गुणशालिनः॥१८१॥ अद्यास्माक महोभाग्यं, धन धान्यादि वैभवम् । सफलं विद्यते मीषां, सुदर्शनं यतो जनि ॥१८२।। गुरुमकबरो वादी, त्समेत्यात्र जगद्गुरो। अस्मदुपरि युष्माभि महती विहिता कृपा ॥१८३।। अतः परंहि युष्माभि, रागत्यात्र निरन्तरम् । एकशो दर्शनं देय मस्माकं धर्म वृद्धये ॥१८४॥ यथास्थिरा मतिर्मेस्ति, दयाधर्मे तथास्तु मे । सन्तानान्तः पुरन्द्रीणा-मपि मतिर्दया वृषे ।।१८।। इदृशी मेऽभिलाषास्ति, भवद्भिर्गम्यतां मुदा। अधुनोपाश्रयं संघ-मनोरथः प्रपूर्यताम् ।।१८६।।
५२]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org