________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम किन्तु मया यतौ जीव दया प्रचार हेतुना । यूय मत्र समाहूता, भवन्तोत्र समागताः ॥१६६।। तता मयि कृपा सीमा, कृतास्ति भवतो ऽधुना । जैन धर्म विशेषाव-बोधं प्राप्य जगद्गुरो ॥१६७॥ . जीवौघा भयदानादि-दत्वा वोध्व परिश्रमम् । अहमपाकरिष्येथ, गुरु जगाद साहिनम् ।।१६८।। युग्मम् ।। ध्येयोस्ति केवलं धर्म-प्रचार करणे हि नः । सदा विचरणाचारो, ऽस्माकं सर्वत्र वायुवत् ॥१६॥ अतएवाध्वखेदोस्ति, नाऽस्माकं भो मनागपि । पालयितु स्व कर्त्तव्यं, वयमाया महेत्रहि ॥१७०।। धर्म जिज्ञासुतां दृष्ट्वा वोनश्च परमं मुदम् । भवत्येवं मिथो वार्ता-लापं प्रकुर्वतोस्तयोः।।१७१।। अत्यन्तं हर्षितः साही, स्व हस्तेन गुरोः करम् । बाढं सम्मेलयामास, बृहत्सम्मान पूर्वकम् ।।१७२।। युग्मम ।। ततः साही गुरु रम्यं, स्व प्रासादं निनायतौ। यथा स्थाने स्थितौ धर्म-गोष्टी विते नतुर्मिथः ।।१७३।। अकबर कृत प्रश्नोत्तराणि प्रददन गुरुः । ददौ सद्देशनां तस्मै, दृष्टान्त हेतु पूर्वकम् ।।१७४।। गुरोः सुधामयों पाप-ताप संहारिणीं वराम । निशम्य देशनां साही, चित्तत्यन्तं ररंजसः ॥१७॥ तद्देशना प्रभावस्त-ञ्चित्त पतत्कृपाङ्कुरः । प्रादुरासीत्पुनः पूज्य-भावं भक्ति गुरुप्रति ॥१७६।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org