________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम्
महिमपुर संघोऽत्र, गुरून वन्दितु माययौ । सोपि कृत्वा जिनार्चादि सत्कार्य मगमत्ततः॥१४७।। तत्रत्य वीरदासोपि. शंकर तनुजो गुरोः । सार्थे लाभपुरं याव द्भक्ति कतु चचाल च ॥१४८॥ गुरखो पि ततो हापा-णइ पुरं गताः क्रमात् । तत्रत्य श्रावकै स्तत्र, महोत्सवात्प्रवेशिता ॥१४॥ गुर्वागमन सन्देशं, लात्वा लाभपुरं गतः। यस्तस्मै प्रददौ मंत्री, स्वर्णादि पारितोषिकम् ।।१५०॥ गरो हपाणइ प्रामा-गमन मवगम्य च । लाभपुरस्थ जैनीया ऽखिल संघो मुदत्तराम् ।।१५।। स संघो मन्त्रिणा साद्ध, तत्र समेत्य दर्शनम् । गुरोः कृत्वा पुनः सार्थे, भूत्वा लाभपुरं ययौ ।।१५२॥ पुरा सन्नागते सूरौ, मंत्री जगाद साहिनं । भवन्निमन्त्रितः सूरि, रायातो स्त्यत्र साम्प्रतम् ॥१५३ तच्छू त्त्वा कबरोतीव प्रसन्नो भूज्जगादतम् । अत्रानयत यूयं तान् , जगद्गुरू न्महोत्सवात् ॥१५४।। तस्मिन्क्षणे गुरोः सार्थे, श्री जयसोम पाठकः । विद्वान् कनकसोमाख्यो, महिमराज वाचकः ।।१५।। मुनी रत्ननिधानाख्य-गुणविनय पाठको। समयसुन्दराद्याश्च, महान्तः सुयशस्विनः ॥१५६।।
४१]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org