________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम्
लांबियां सोजतं बेना-तटं जेतारणादिकम् । पावयन्सुगुरुः प्राप, क्रमेण मेडता पुरम् ॥१३७॥ तस्मिन् क्षणे पुरे तस्मिन् धन धान्य जनाकुले । समृद्धि शालिभिः श्राद्धै, जिनालयै विशोभिते ॥१३८॥ सुपराक्रमि बुद्धी द्धौ, कर्मचन्द्राख्य मन्त्रिणः । ऊषतु र्भाग्यचन्द्राख्य लक्ष्मीचन्द्राभिधौ सुतौ ॥ १३६ ॥
युग्मम् ॥
ताभ्यां महा जनै हस्ति- हय रथ पदातिभिः । वाजित्रै विविधैः सार्द्धं, तत्र पूज्याः प्रवेशिताः ॥ १४८ ॥ पुरे लम्भfनका चैत्य, पूजा दान प्रभावनाः ।
ताभ्यां कृताः पुनः श्राद्ध - जना व्रतादिकं ललुः ॥ १४१ ॥ अत्रायासीत्पुनः साहि फुरमानं ततो गुरुः । सार्द्धं सकल संघेन, फलवद्धि पुरं ययौ ॥ १४२ ॥ तत्र श्री पार्श्वनाथस्य, विधाय दर्शनं गुरुः । नागपुरं गतो मेहा - कृत प्रवेशनोत्सवः || १४३ ॥ त्रिशत शीविका यान-शत चतुष्टयैः समम् । वीकानेरस्थ संघांत्र, गुरु वन्दितु मागतः ॥१४४ ।। तत्र साधर्मिवात्सल्य-पूजा प्रभावनादिकम् । तेन कृतं ततो रीणी - ग्रामं गतः स सद्गुरुः ।। १४५।। ठाकुरसिंह पुत्रेण, रायसिंहाख्य मंत्रिणा । तत्रत्येन पुरे सूरिः प्रवेशितो महोत्सवात् ॥ १४६॥
४८
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org