________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम्
महुर शिवपुरी स्थायी, संघो भून्मुदितो भृशम् । तत्र स्वर्णगिरेः संघो, सूरि नन्तुं समाययौ ॥११६॥ श्रीसुलतान रावोऽपि, विभूत्यागत्य सद्गुरून् । नत्वा स्तुत्वा यथा स्थानं, स्थित्वा श्रुत्वाप्त देशनाम् ॥११॥ संघेन सम मत्रैव, पर्व पयूषणाभिधम् । पर्वोत्तमं विधातव्य, मिति गुरुं व्यजिज्ञपत् ॥११८॥ तद्वचः स्वीकृतं ज्ञात्वा-त्याग्रहं गुरुणा प्यभूत् । तत्रात्यन्तं तपस्यादि-धर्मकृत्यं मनोहरम् ॥११६।। अमायुद्घोषणां श्रेष्ठे, तस्मिन्विधाप्य पर्वणि । राव पार्वात्प्रभूतांग्य-भय मदायि सूरिणा ॥१२०॥ राज्ये हिंसा निषेधार्थ, रावायादायि देशना । हित दा गुरुणा तेन, राकायां सा निषेधिता ॥१२१॥ ततो विहृत्य सूरीन्द्रो गाजावालीपुरं गुरोः । तत्रत्य वन्ना साहेन, पुः प्रवेशोत्सवः कृतः ॥१२२।। तत्र लाभपुराच्छीघ्र, पातिशाहि नर द्वयम् । आगत्य फरमानैक-पत्रं श्री गुरवे ददौ ॥१२३॥ तत्र लिखित मत्रैव. मतः परं भवादृशाम् । चतुर्मास्यां विहारेण, माभवतु परिश्रमम् ।।१२४॥ अतएव चतुर्मास्या, अनन्तरं द्रुतं पुरे। अस्मिन् भवद्भि रेतव्यं, न कर्त्तव्यं विलंबनम् ॥१२॥ कार्तिक माश्चतुर्मासी, यावत्तत्रैव संस्थिताः।
४६]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org