________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् ततो विहृत्य सूरीन्द्रः प्रहलाद पुरं गतः। .. गुरु स्तत्रत्य संघेन, महोत्सवात्प्रवेशितः ॥१०६॥ प्रहलादपुरा यातं, सुरीश्वरं निशम्य च । हर्षा च्छिव पुरीशेन, सुलतानाख्य भूभुजा ॥१०७|| जैनीय संघ मेकत्री-कृत्येयं शिष्टि रर्पिता। मत्प्रधान नरैः साद्धं, यूयं श्राद्धाश्च सत्वरम् ॥१०८१ प्रह्लाद पुरं गत्वा, ऽत्रागन्तुं चन्द्रसूरये । आमन्त्रणं कुरुध्वं भोः, प्रभूतादर पूर्वकम् ॥१०॥
त्रिभिर्विशेषकम् ।। ते प्यथ तत्र विज्ञप्ति, कृत्वा पश्चात्समाययु । ततो विहृत्य सूरीन्द्रः क्रमाच्छिवपुरी ययौ ॥११०।। स्वागतं सुगुरोः कत्तु , मभिमुखं सहस्रशः। जना ययुश्च तूर्येषु, वाद्यमानेषु हारिसु ॥११॥ स्थाने स्थाने लसन्मुक्ता-फल रौत्याक्षतादिभिः गुरुं वर्धापयंतीषु. कुलवतीषु भक्तितः ॥११२। सद्गुणान्गीयमानासु, मधुर ध्वनिना गुरोः । गुरु पृष्टानु यातासु, नारीषु सधवासु च ॥११३।। जय जयेति शब्देषु, जायमानेषु सर्वतः। सुश्रृंगारित हट्टादि राजपथा प्रभूय च ॥११४।। चैत्ये ऋषभदेवस्य, विधाय जिन दर्शनम् । श्री जिनचन्द्रसूरीन्द्रा, उपाश्रयं समागताः ॥११।।
पञ्चभिः कुलकम् ।।
४५ ]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org