________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम्
तदा तत्र श्रुता तेन, सम्राजा कोविदाननात् श्रीजिनचन्द्र सूरीन्द्र-श्लाघा कोविदतोद्भवा ।।७।। ततः सम्राज उत्कृष्टे-हा जनि सूरि दर्शने । जैन धर्मविशेषाव-बोधाया पृच्छि साहिना ॥७६।। अमुष्यको ऽवशिष्योस्ति, जगदुः पण्डितास्तदा । कर्मचन्द्राख्य मन्त्रीति, स आहूयाह तं प्रति । ७७ ॥ मन्त्रीश्वराधुना युष्म, द्गुरुः कुत्र विराजते । स सूरिस्त्वरितं सोऽत्र, यथायाति तथा कुरु ।।७८॥ श्री जैन शासनोद्योत-करणैक परायणः चतुर्वृद्धि निधि र्वाग्मी, सो वादी साहिनं प्रति ॥७॥ राजेश्वरा धुना पूज्यः स स्तम्भने विराजते। ग्रीष्मतुः साम्प्रतं दीर्घ-पन्थो वृद्ध वयोस्ति च ।।८०॥ इत्यादि कारण स्तस्या-गमनं प्रतिभासते । मेदुष्करं ततः सम्राट , स्माह नायांति ते यदि ॥८॥ तदातत्साधवोत्राश्चा-यांतु तत्राथ धी सखः । विज्ञप्तिपत्र मालेख्य-प्रेषी त्साहि नर द्वयम् ।।८२॥ ताभ्यां स्तम्भन मागत्य, सूरे पत्रं समर्पितम्। .. तद्गुरुणापि वाचित्वा, महालाभं विचार्य च ।।८३॥ षड्भिः सन्मुनिभिः सार्द्ध, महिमराज वाचकः । संप्रेषि लाभपुर्या सो, प्यगमत्स्वल्पकालतः ॥८४||युग्मम् ॥ सम्राडति प्रसन्नोभू, द्वाचक दर्शनेनहि। ........
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org