________________
युगप्रधान श्रीजिनचन्द्रसूरि चरितम्
प्रसन्नीभूय संप्रेष्य श्री जहाँगीर साहिना । श्री मुकरबखानाख्य नबाब शिष्टिकारकम् || ७६ ।।
गुरु परम्परायातं पितृदत्त महोत्सवात् । दत्तं युगप्रधानाख्य पदं श्री सिंहसूरये ॥७७॥ युग्मम् ॥
संवत्ख शैल देहेन्दु वर्षे बेनातटे पुरे । चतुर्मासी कृतायेन स्वगुरुणा समं पुनः || ७८||
ततः परमसौ प्राप्य श्री गच्छ नायकास्पदम् ।
भव्यान् विबोधयन पृथ्वी - मण्डले विजहार च ॥७६॥ मेडतापुर वास्तव्य चोपड़ा गोत्रिणापुनः । साहास करण श्राद्धोत्तमेन धर्मवेदिना ||८०||
शत्रु महातीर्थ यात्रार्थं सूरिणासमम् । श्रीसंघ प्रगुणीकृत्य महान्तंभाव पूर्वकम् ॥ ८१ ॥ । आद्य प्रषाणकं संवद्-भू शैल ेन्दु वत्सरे । पौष शुक्ल त्रयोदश्यां शुभेक्षणेततः कृतम् ॥८२॥
-
६८ ]
बीकानेर समायातो महान् संघोप्यनेन च । श्रीसंघन समं गूडा - ग्रामे सम्मिलितो चलत् ||८३|| देवदर्शनपूजादि कुर्वन् ग्राम पुरादिषु ।
साबुदादि सत्तीर्थ-यात्रां सद्भाव वासितः || ८४|| चैत्रशुक्लस्य राकायां शत्रुञ्जय महागिरेः ।
यात्रां कृत्वा निजात्मानं सफली विदधे भृशम् ||८५ ॥ युग्मम् ||
Jain Educationa International
त्रिभिर्विशेषकम् ||
For Personal and Private Use Only
www.jainelibrary.org