________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् तत्रासकरणाय श्रीजिनसिंहाख्यसूरिणा । संघपति पदंदत्त मालारोहण पूर्वकम् ।।८६।। ततो विहृत्य सूरीन्द्रः श्रीस्तम्भनपुरं गतः। तत्र श्रीपार्श्वनाथस्य चकार दर्शनमुदा ।।८७|| ततोऽसौ विहरन राजनगर पत्तनादिषु । आगतो वडल ग्रामं श्राद्धजन समाकुलम् ।।८८।। तत्र श्री दत्तसूरीन्द्र पादुकाद्वय दर्शनम् । . कृत्वा ततो विहृत्यासौ शिवपुरी समागतः ।।८।। समुदितेन संघेन प्रवेशितो महोत्सवात् । तदीशराजसिंहेनात्यन्तंभक्तिः कृतागुरोः ॥१०॥ सोथ विहत्यजालोर मागतः स्वागतः कृतः । गुरो स्तत्रत्य संघेन घांघाणीमगमत्ततः ।।११।। वीकानेरं ततः सोगा त्पुःप्रवेशोत्सवः कृतः । तत्रत्य वाघमल्ले न श्रीजिनसिंह सद्गुरो ।।१२।। वेदशैलाङ्ग चन्द्राब्दे तत्रवर्षा स्थितिः कृता । तेनाभूत्तत्प्रभावेन बह्वीधर्म प्रभावना ॥१३॥ इतः सम्राजहाँगीरो भूदर्शनाभिलाषुकः । गुरो विवेद सूरीन्द्र बीकानेर स्थितं गुरुम ॥६४।। तेनाऽत्र दर्शनंदातु विज्ञप्ति पत्र पूर्वकम् । गुरवे प्रेषितास्तत्र प्रधान पुरुषावरा ॥६॥ आगत्यतेऽपि विज्ञप्ति पत्रं समर्प्यसूरये । विज्ञप्ति विदधुस्तत्रागन्तु सुबहुमानतः ।।६।।
[६६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org