________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् अर्हसिद्ध गणीन्द्र पाठक मुनि श्राद्धावति श्रावकाद्यहत्वादिक भावतद्गत गुणान् मार्गानुसारीन् गुणान् श्रीअर्हद्वचनानुसारि सुकृतानुष्ठान सद्दर्शनज्ञानादीननुमोदयामि सुहित योगैः प्रशंसाम्यहम् ॥२३६॥ संसारेऽत्र मयास्वकर्मवशगा जीवाभ्रमन्तोऽखिलाः, क्षाम्यन्ते क्षमिताः क्षमन्तुमयि ते केनाऽथि सार्ह मम । बैरं नास्ति च मैत्रितास्ति सुखदा जीवेषु सर्वेषु मे; यदुश्चिन्तित भाषित प्रविहितं मिथ्यास्तु तदुष्कृतम् ।।२४० यश्चायास्यति मे कदा दिनमहं यत्पालयिष्येऽमलं, चारित्रं जिनशासनं गत मुने गिं चरिष्याम्यहम् । मुक्तो जन्मजरादि दुःख निवहात्संवेग निर्वेदतातोक्ता स्तिक्य दयालुता प्रशमता धर्ता भविष्याम्यहम्॥२४१॥ निर्ममोन्ते स्मरन् पञ्च नमस्कारं पुनः पुनः । कृत्वा पुन श्चतुर्यामानशनं सुसमाधिना ॥२४२।। निज पौद्गलिकं देहं त्यक्ता जगद्गुरु दिवम् । आश्विनकृष्णपक्षस्य द्वितीयायां तिथौगतः ।।२४३।। युग्मम्।। विलीनं तज्जगज्ज्योतिः सदार्थमजनीदृशाः । दुर्दैव कराल कालेन नत्यक्ताः सन्नरा अपि ।।२४४।। सर्वा नित्य तयाद्यस्व स्पष्ट परिचयोर्पितः । सुन्दर पूज्य देहेन रूक्षोत्तरः सदैव च ।।२४५।। दीप ज्ञान प्रदीपः सो-स्तं नीतः कालवायुना । सर्वदार्थ मदृश्या भूत्साच तेजोमयी प्रभा ॥२४६।।
[ ८५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org