________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् श्रीप!षण घस्रषु किं वाच्य मथ सूरिणा। निजायु निकटं ज्ञात्वा चिह्न ज्ञानोपयोगतः ।।२३१।। शिष्येभ्यो दायि शिक्षेत्थं शासनोन्नतिनासमम् । आत्मोन्नतौ सदाकार्या प्रवृत्तिर्भो विचक्षणाः ॥२३२।। गच्छभारो मया दायि श्रीजिनसिंहसूरये । तस्याज्ञायां च युष्माभि वर्तितव्यं सदैवभोः ॥२३३॥ श्राद्ध श्राद्धी जनेभ्योऽपि हितशिक्षोचितार्पिता । पुनश्चतुर्विधः संघः क्षामितः सूरिणा त्रिधा ॥२३४।। देश देशान्तरे पत्र-द्वारेणक्षामितोऽखिलः । संघोऽनुवन्दनाधर्मलाभादि पूर्वकं पुनः ॥२३॥ क्षामिता जन्तवः सर्वे पापनिन्दा पुनः पुनः । पुण्यानुमोदना तेन कृता सभावयन्निदम् ॥२३६॥ आप्तोऽष्टादश दोषशून्य जिनपश्चाहन्सुदेवो मम, त्यक्तारम्भ परिग्रहः सुविहितो वाचंयमः सद्गुरुः ॥ धर्मः केवलि भाषितो वरदयः कल्याणहेतुः पुनरहत्सिद्ध सुसाधु धर्मशरणं भूयात्रिशुद्धया भवम् ।।२३७।। भूतानागत वत्तमान समये यद् दुष्प्रयुक्तर्मनोवाक्कायैः कृतकारितानुमतिभि देवादितत्त्वत्रये । संघे प्राणिषु चाप्त वाच्यनुचितं हिंसादि पापास्पदम्. मोहान्धेन मया कृतं तदधुना गर्हामि निन्दाम्यऽहम् ।।२३८।
[८४
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org