________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
तत्प्रभावेन सर्वत्राऽत्यन्त धर्मप्रभावना | तत्रसङ्घ भवद्धर्म-सत्कृत्याद्यधिकाधिकम् ॥ २२०॥ ततो जगामसूरीन्द्रो मेड़तापुरमाकुलम् । राजमान्य धनि श्रेष्ठयासकरणाद्य पासकैः ॥२२१|| तत्र श्राद्ध ेषु जातानि परम भक्तिशालिषु । प्रभूत धर्मकार्याणि सूरिराज समागमात् ||२२२|| निशम्य मेड़ताद्रङ्गा-गमनं सुगुरोस्तदा । बेनातट स्थितः संघोऽत्यन्त हर्षितो जनि ॥२२३॥ एकत्रो भूय संघेन तेनाऽत्र तत्ववेदिना । कारयितुंगुरो वर्षास्थिति कृत्वा विचारणा ||२२४|| संघ प्रतिष्ठितश्राद्धजनाः श्रीमेडतापुरम् । गत्वा विज्ञपयामासुस्तदर्थं सुगुरु ं भृशम् ||२२५ || ततः सुमतिकल्लोल- पुण्यप्रधानपाठकैः ।
मुनि श्रीवल्लभाम्यादि - पालादि मुनिभिः समम् ||२२६ || बेनातटपुरं जग्मुः श्रीजिनचन्द्रसूरयः ।
तत्र श्राद्ध जनैर्भक्त्या प्रवेशिता महोत्सवात् ॥ २२७॥ युग्मम्|| तत्र नभाश्वदेहेन्दु-वर्षे वर्षास्थितिः कृता । श्रीजिनसिंहसूर्यादि मुनिभिः सह सूरिणा ॥ २२८ ॥ श्राद्ध गणोऽपि धर्मिष्टः सूरिराज विराजनात् । सामायिकादि सुश्राद्धानुष्ठाने सुरतो जनि ॥ २२६ ॥ पुनर्मुनि गणोध्याने स्वाध्याये वरसंयमे । तपश्चर्यादि साध्वानुष्ठाने लीनो भवद्भ शम् ||२३०॥
[ ८३
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org