________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् हाहाकार विषादावाच्छादितौ विषयेऽखिले । दिने सत्यपि सर्वत्र तमो भूतमिवा जनि ॥२४॥ श्रीगुरु विरह ज्वाला लोकानां हृदयोत्थिता । अश्रुरूपेण नेत्रेभ्यो दारुणानिर्गता बहिः ॥२४॥ साथका समये तस्मिन् शौच्यां दशाङ्गता जनाः । सर्वेम्लानमुखी भूय निर्मग्नाशोक सागरे ।।२४६।। सूरेरन्तः क्रियां कत्तु संघेन सुन्दराकृतिम् । विमानं कारयित्वा तच्छबं प्रक्षाल्य वारिणा ॥२५०।। तस्य विलेपनं कृत्वा चन्दनादि सुवस्तुभिः । स्थापयित्वा विमाने तं सुगन्धि धूप पूर्वकम् ॥२५१।। द्रव्योच्छालन वाजित्र-नादाद्युत्सव पूर्वकम् । नीयमानाः शबंग्राम-मध्यमध्येन च क्रमात् ।।२५२।। बाणागङ्गातटासन्ने जना शुद्ध रसातले । चक्र स्तस्याग्नि संस्कारं सञ्चन्दन घृतादिभिः ॥२५३।। गुरोरतिशया( हे दग्वेऽपि मुखवस्त्रिका । न दग्धा हर्षिताः सर्वे त आश्चर्यं विलोक्यतत् ।।२५४॥ गुरु गुणान्स्मरन्तो थ गुरुविरह दुःखिताः। निरोत्साहा निरानन्दाः स्व स्व गृहं ययुर्जनाः ॥२५॥ यत्र गुर्वग्नि संस्कार मभूत्तत्र विधापितम् । तत्रत्येन सुसंघेन गुरोः स्तूपं वराकृतिम् ॥२५६।। श्री सिंहसूरिभिस्तत्र ख मुनि रसेन्दुवत्सरे । दशम्यां मार्ग शुक्लस्य तत्पादुका प्रतिष्ठिता ॥२५७।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org