________________
( ६०८ ) समयसुन्दरकृति कुसुमाञ्जलि
सिंहासनं विमलहेममयं त्रिरेजे, मध्यस्थितत्रिजगदीश्वरमूर्त्तिरम्यम् ।
नोद्योतनार्थमुपरिस्थितसूर्यबिंबं,
किं मन्दराद्रिशिखरं चलितं कदाचित् ॥ १५॥
टीका- किं मन्दराद्रिशि• न कदाचिञ्चलितम् । दोषाकरो न सकरो न कलंक युक्तो, नास्तंगतो न सतमानसविग्रहो न । स्वामिन् विधुर्जगति नाभिनरेंद्रवंश
Jain Educationa International
दीपोऽपरस्त्वमसि नाथ | जगत्प्रकाशः ॥ १६ ॥
टीका - हे स्वामिन्! जगति त्वमपरो विधुरसि नवीनचन्द्र असि । कथं ? विलक्षणधर्मानाह - स तु विधुर्दोषाकरो - दोषः रात्रि करोतीति दोषाकरोऽथवा दोषायां रात्रौ कराः-किरणाः यस्य स त्वं तु न दोषाकरो दोषाणामन्तरायादीनामष्टानामाकरः । पुनः स तु सकर:- सहकरैः किरणैर्वर्त्तते यः सः, त्वं तु न सकर:सह करेण दण्डेन वर्त्तते यः सः । पुनः स तु कलंकयुक्त :कलंकेनाभिज्ञानेन युक्तो य सः । त्वं तु न कलङ्कयुक्तो - न दोषविशेष सहितः । पुनः स तु अस्तंगतोऽस्तमस्ताचलङ्गतः प्राप्तः सायमित्यर्थात् ग्राह्यः । त्वं तु नास्तंगतः । नास्तमित उद्गत् इत्यर्थः । पुनः स तु 'सतमा' सह तमसा- राहुणा वर्त्तते यः सः, त्वं तु न सतमा - सह तमसाऽज्ञानेन वर्त्तते य सः एवंविधो
पुनः स तु विग्रहः सह विशिष्टैर्य हैर्वर्त्तते यः सः, त्वं तु सविग्रहः सह विग्रहेण - संग्रामेण वर्त्तते यः सः, एवंविधोन, शेषं सुगमम् ॥१६॥
For Personal and Private Use Only
www.jainelibrary.org