________________
( ६०४ )
समयसुन्दरकृतिकुसुमाञ्जलि
प्राकृत संस्कृत स्तवन संग्रह
ऋषभ-भकामर-स्तोत्रम् । नम्रन्द्रवन्द्र ! कृतभद्र ! जिनेन्द्र! चन्द्र!,
ज्ञानात्मदर्श-परिहष्ट-विशिष्ट-विश्व !। त्वन्मृतिरत्तिहरणी तरणी मनोज्ञे
वालम्बनं भवजस्ले पततां जनानाम् ॥१॥ टीका-ऐं नमः । हे जिनेंद्र! त्वन्मूर्ति जनानामालंबनं । किं० भवजले
पततां । केव ? तरणीव । किं० त्वन्मूति ? अतिहरणी-संतापनाशिनी। हे नमेंद्र ! नम्र इन्द्राणां वंद्रः-समुहो यस्य यस्मिन्वा। शेषं सुगमम् ॥१॥ गृहणाति यजगति गारुडिको हि रत्नं,
तन्मंत्र-तंत्र-महिमैव बुधोप्यशक्तः । स्तोतुं हि यं यदबुधोप्यदशीयशक्तिः,
- स्तोव्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ टीका-'किलेति' सत्येऽहमबुधोपि तं प्रथमं जिनेंद्र स्तोष्ये । तत
अदशीयशक्तिः । तं कथंः स्तोतुं बुधोपि-सौम्योपि अथवा पण्डितोपि असक्तोऽसमर्थः ? दृष्टांतमाह-यजगति गारुहिकोऽहिरत्नं-सर्पमणिं गृहणाति तन्मंत्र-तंत्र-महिमैव इत्यनेन निजगनिरास: जिनमहात्म्यैव दर्शिते । मणि-शब्दः इकरांतोऽपि स्त्रीलिंगेप्यस्ति ॥२॥ त्वां संस्मरन्नहमरं करमीप्सितस्य,
दूरं चिरं परिहरामि हरादिदेवान् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org