________________
समस्याष्टकम्
Jain Educationa International
(४) समस्याऽष्टकम्
प्रस्नात्रकृते देवा नीयमानान् नभे घटान् । रौप्यान् दृष्ट्वा नराः प्रोचुः शतचन्द्रनभस्तलम् ॥ १ ॥ रामया रममाणेन कामोद्दीपनमिच्छता । प्रोक्तं तचारु यद्येवं शतचन्द्रनभस्तलम् ॥ २ ॥ सर्वशेन समादिष्टं साद्ध द्वीपद्वये वम् । द्वात्रिंशताधिकं भाति शतचन्द्रनभस्तलम् ॥ ३ ॥ हस्त्या रोहशिरस्त्राणश्रेणिमालोक्य संगरे 1 पतितो विह्नलोऽवादीत् शतचन्द्र नभस्तलम् ॥ ४॥ दीपान दीपालिकापवें कृतानुच्चैस्तरं निशि । वीक्ष्य विस्मयतो ज्ञानं शतचन्द्रनभस्तलम् ॥ ५ ॥ मुक्तधच रपूरवाद्भ्रान्तदृष्टिरितस्ततः । अपश्यत्कोऽपि सर्वत्र शतचन्द्रनभस्तलम् ॥ ६ ॥ दर्पणश्रेणिमालोक्य सौधाभ्र लिहतोरणे 1 स्माह सुप्तोत्थितः कोपि शतचन्द्रनभस्तलम् ॥ ७ ॥ नमः प्रकाशवद्भाति यथैकेन खरांशुना । तथा सखि कदापि स्यात् शतचन्द्रनभस्तलम् ॥ ८ ॥ यत्र तत्र जलस्थाने दृश्यते जलचन्द्रमाः । तत्कि सखि संजातं शतचन्द्रनभस्तलम् ॥ ६ ॥
१ इदं द्वात्रिंशदायुक्त
( ४६७ )
For Personal and Private Use Only
www.jainelibrary.org