________________
(४६६ )
समयसुन्दरकृतिकुसुमाञ्जलि
(३) उद्गच्छत्सूर्यबिम्बाष्टकम् चतुर्यामेषु शीता यामिनी कामिनी किमु । तापाय तपनोद्गच्छद्धिम्बमङ्गोष्टिकां व्यधात् ॥१॥ दिनश्रीधिकृता यांती रुष्टा रात्रि निशाचरी । वन्हिज्वालावलीमुश्चतीव भानुप्रकाशतः ॥२॥ प्राचीदिगप्रमदा चक्र विशाले भालपट्टके । बालारुणरवेर्बिम्बं चारुसिन्दूरचन्द्रकम् ॥३॥ पश्यन्त्या वदनं प्रोची पमिन्यां दपिणेऽरुणः । प्रवालाधररागेण रविबिम्बमिव प्रगे ॥४॥ प्रतीच्याऽभिमुखं क्रीडोच्छालनाय नवाऽरुणः। प्राचीकन्याकरस्थः किं रक्तधु रत्नकंदुकः ॥५॥ जगद्ग्रसित्वा पापिष्ठः क्व गतोद्धांत राक्षसः। तं द्रष्टुमिति बालार्को दीपिका दिन भूभुजः ॥६॥ प्राचौदिगनकीव्योमवंशाग्रमधिरोहति । कृतरक्ताम्बराशीर्ष न्यस्तार्कस्वर्णकुम्भभृत् ॥७॥ त्वत्कीर्ति कान्तया दधे बालार्कस्तप्तगोलकः । दिव्याय स्वेच्छया भ्रान्त्या कुसतीत्वहृते नृप ॥८॥ रवेः प्रकाशं विंबं चारक्तं दृष्ट्वा प्रगे रयात् ।
कौतुकादष्टकं चक्र गणिसमयसुन्दरः ॥६॥ इति श्री समयसुन्दरोपाध्याय कृतं उद्गच्छत्सूर्यबिम्बाष्टकम् ॥३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org