________________
रजोष्टकम्
(४६५)
(२) रजोष्टकम् देवगुर्वोरिव शेषां शीर्षचां स्थापयन्त्यमी । हस्तेन हस्तिनो हर्षादहो ते धूलि मान्यता ॥१॥ स्वस्ति श्रीमति लेखेपि यत्नतः प्रेषितेपि च । परं सिद्धिस्तवाधीना शक्तिस्ते रज इदृशी ॥२॥ जगदाधारभूतेन जलदेन पुरस्कृताम् । वातेनोढां निरीक्ष्य त्वां धनाशा जायते नृणां ॥३॥ सर्वसहा प्रश्रतित्त्वात्मद्यमानं पदैरधः । न कुप्यसि कदापि त्वं रजस्ते शांतिरुत्तमा ॥४॥ यस्या नाम पदाधस्त्यां त्वां लात्वा रविवासरे। मस्तके क्षिप्यते मंत्रात् सा स्त्री वश्या रजो नृणाम् ॥१॥ गालिदाने न रुड् लज्जे यत्र स्वेच्छा कृतं सुखम् । रजः पर्व यतो जज्ञ तन्मान्यं कस्य नो रजः ॥६॥ रथ्यासु रममाणानां शिशुनां पांसुशालिनाम् । धूले त्वं स महापि शृङ्गारादतिरिच्यसे ॥७॥ अप्रार्थ्याप्यनभीष्टापि सुलभापि पदे पदे । अहो ते धूलि माहात्म्यं लक्ष्मीरित्यभिधीयसे ॥८॥ श्रीमद्विक्रम सदेंगे विद्वद्गोष्टिषु नोदितः । रजोष्टकमिदं चक्र शीघ्र समयसुन्दरः ॥६॥
इति श्री समयसुन्दरोपाध्याय कृतं रजोष्टकम् । १ सौभाग्यं
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org