________________
(४६४ )
समयसुन्दरकृतिकुसुमाञ्जलि
(१) तृष्णाष्टकम्
अच्छंदकविवादे त्वं भज्यमानं तु नाऽभनक । वीरोक्तिं कृतवान् सत्यां तद्धन्यं जन्म ते तृण ॥१॥ साधुचतुर्व्यथोद्भूत--पापशुद्धिकृते तृणम् । पुनः पुनर्बलत्याशु कृशानौ जनसाक्षिकम् ॥२॥ राज्यर्द्धि त्यक्तवान् सर्वां निःस्पृहः करकण्डुराट् । परं त्वां तृण नामो च द्वालभ्यं भुवि ते महत् ।।३।। अहो ते तण माहात्म्यं विवादे पतिते त्वयि । सत्याय मस्तके न्यस्ते तत्क्षणं भज्यते कलिः ॥४॥ कृते पंचामते भोज्ये ताम्बूले भक्षिते तण । वक्त्रशुद्धिकरन्तु त्वं वरांगस्थिति तन्महत् ॥५॥ अहो ते तृण सौभाग्यं शर्कराभः समं ततः । अन्तरालिंग्यसे स्त्रीभिर्यथा सौभाग्यवान् नरः॥६॥ तणशक्तिरहोदर्भ-तृणझाटेन मन्त्रतः दुष्टस्फोटकभूतादि दोषा यांति यतः क्षयं ॥७॥ छाया सोपरिस्थस्त्वं दंतस्थं युधि जीवनम् । गो-जग्ध-मसि-दुग्धं तदुपकारि महत् तृण ॥८॥ विद्वद्गोष्टिविनोदेषु तृष्णाष्टकमचीकरत् । श्रीविक्रमपुरे रंगागणिः समयसुन्दरः ॥६॥ इति श्री समयसुन्दरोपाध्याय कृतं तृणाष्टकम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org