________________
श्रीजिनसागरसूर्यष्टकम्
( ४०७ )
.............॥३॥
मूलत्राणपुरे मरोट्टनगरे, देराउरे पुग्गले । श्रीउच्चे किरहोर-सिद्धनगरे, धींगोटके संबले ॥ श्रीलाहोरपुरे महाजन रिणी, श्रीआगराख्ये पुरे । सांगानेरपुरे सुपर्वसरसि, श्रीमालपुर्यां पुनः ॥२॥ श्रीमत्पत्तननान्नि राजनगरे, श्रीस्तंभतीर्थस्तथा। द्वीपश्रीभृगुकच्छवृद्धनगरे, सौराष्ट्रके सर्वतः ।। श्रीवाराणपुरे च राधनपुरे, श्रीगूर्जरे मालवे । ........ सर्वत्र प्रसरी सरीति सततं, सौभाग्यमावाल्यतः । वैराग्यं विशदामतिः सुभगता भाग्याधिकत्वं भृश ।। नैपुण्यं च कृतज्ञता सुजनता, येषां यशोवादता । सूरिश्रीजिनसागरा विजयिनोभूयासुरेते चिरम्॥४॥ प्राचार्या शतशश्च संति शतशो, गच्छेषु नाम्ना परां । त्वं त्वाचार्य पदार्थयुग युगवरः प्रौढः प्रतापाकरः॥ भव्यानां भवसागरप्रतरणे, पोताय मानो भुवि । श्रीमच्छीजिनसागरः सुखकरः सर्वत्रशोभाकरः ॥॥ सौम्यश्रीहिम दीधितौ सुरगुरौ बुद्धिर्धरायां क्षमा। तेजः श्रीस्तरणौ परोपकृतिधीः श्रीविक्रमे भूपतौ॥ सिद्धि गोरखनाथ योगिनि बहुलाभाश्च लम्बोदरे। सत्येवं विविधानयागुणगणाः सर्वे श्रितास्यां प्रभो॥६॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org