________________
( १६२ ) समयसुन्दरकृतिकुसुमाञ्जलि बालोपि यो न्यायनये प्रवेश-मल्पेन वांछत्यलसः श्रुतेन । संक्षिप्तयुक्तान्त्रिततर्कभाषा, प्रकाश्यते तस्य कृते मयैषा ।४।
[तर्क भाषा]
-मित भाषिण्याम् हेतवे जगतामेव, संसारार्णव सेतवे। प्रभवे सर्वविद्यानां, शंभवे गुरवे नमः ।।
[ सप्त पदार्थी ] सुखसन्तानसिद्धयर्थ, नत्वा ब्रह्माच्युतार्चितम् । गौरीविनायकोपेतं, शंकरं लोकशंकरम् ।६।
[वृत्तरत्नाकरे ] एवं पूर्वकविप्रणीतविलसत्काव्यैनवीनार्थतः ।। आनंदेन अमीझराभिधविभु श्रीपार्श्वनाथस्तुतिम् ।। श्रीमच्छीजिनचंद्रसूरिसुगुरोः शिष्याणुशिष्यो व्यधात् । सोल्लासं समयादिसुन्दरगणिश्चेतश्चमत्कारिणीम् ।
श्री पार्श्वनाथ यमकबन्ध स्तोत्रम्
प्रणत मानव मानव-मानवं, गतपराभव--राभव-राभवम् । दुरितवारण वारण-वारणं, सुजन-तारण तारण--तारणम् ।१। अमर-सत्कल-सत्कल-सत्कलं, सुपदया मलया मलयामलम् । प्रबल-सादर सादर-सादरं, शम-दमाकर-माकर-माकरम् ।२।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org