________________
( १९०)
समयसुन्दरकृतिकुसुमाञ्जलि
ज्ञानांबुधो सकलचंद्रसमः प्रसद्यः सिद्धान्तमुदररति वितनोतु सद्यः ॥ ६ ॥
श्री संखेश्वर पार्श्वनाथ लघु स्तवनम् श्रीसंखेश्वरमण्डनहीरं, नीलकमलकमनीयशरीरं,
गौरवगुणगंभीरम् । शिवसहकारमनोहरकीरं, दूरीकृतदुःकृतशारीरं,
इन्द्रियदमनकुलीरम् ॥१॥ मदनमहीपतिमर्दनहीरं, भीतिसमीरणभक्षणहीर,
मरणजरावनजीरम् । संसृतितप्तिगुडाश्रितजीरं, वचननिरस्तसिता गोक्षीरं,
गुणमणिराशिकुटीरम् ॥२॥ समतारसवनसिंचननीरं, विशदयशोनिर्जित डिण्डीरं,
त्रिभुवनतारणधीरम् । धोरिमगुणधरणीधरधीरं, सेवकजनसरसीरुहसीरं,
रागरसातलसीरम् ॥३॥ दुरितरजोभरहरणसमीरं, गजमिव भग्नकषायकरीरं,
करुणानीरकरीरम् । सुरपतिअंसनिवेशितचीरं नखमयूषविधुरितकाश्मोरं,
प्राप्तभवोदधितीरम् ॥४॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org