________________
श्वी पार्श्वनाथस्य शृंखलामय लघु स्तवनम् ( १८६ )
श्री पार्श्वनाथस्य श्रृंखलामय लघु स्तवनम्
प्रणमामि जिनं कमलासदनं, सदनंतगुणं कुलहारसमम् । रस मंदमदंभसुधानयनं, नयनंदित वैश्वजनं शमिनम् ॥१॥ युवनोन्मुखकेशरिशावरवं, वरवंशपदा न तदा सहितम् । सहितं समया रमया मदना, मदनाभि तिरस्कृतनीररुहम् ।।२।। वदनरवि बोधितानेकजनपंकज, पंकजं बालपाथोदसमसंचरम् । संचरंतं सरोजेषु सुतमोहरं, मोहरंभा गजे पार्श्वनाथं मुदा ॥३॥
___ त्रिभिः कुलकम् ॥ विहितमंगल मंगल सद्रवि नुत जिनं सदयं सदयं जनाः । विगत देव न देवनरोचितं, गतकजामरचामरराजितम् ॥४॥ जिन यस्य मनो भ्रमरो रमते, रमते पदपमयुगं सततम् । सततं नववामकरंदमिना, दमिनावनिपीयमुदं दमिनः ॥१॥ महोदये वाम जिनं वसंतं, जिनं वसंतं शुभवल्लिकंदे । सस्मार पार्श्व सुमनो विमानं, मनोविमानं स जगाम यस्य ॥६॥ कल्याणकंदे कमलं हरतं, जिने जनानेकमलं हरंतम् । सतां महानंदमहं स पद्म, पार्थ ददौ यो दमहंस पद्म ॥७॥ कल्पकल्पोपमं पूर्णसोमोदयं, मोदयंतं जनान् वंशहंसप्रभम् । सप्रभं पार्श्वनाथं वहे मानसे, मानसेवालवातूलमेनं जिनम् ॥८॥
एवं स्तुतो मम जिनाधिपपार्श्वनाथः, कल्याणकंदजिनचंद्ररसा सनाथः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org