________________
( १८८)
समयसुन्दरकृतिकुसुमाञ्जलि
-
पोता पदंभस्तरणेऽवदातः, श्रियो जगद्दव मणेवदातः ।। चिन्तामणि मे चटिता ममाद्य, जिनेश हस्ते फलिता ममाघ । गृहांगणे कल्पलता सदैव, दृष्टे तवास्ये ललिता सदैव १७/ एवं स्तुतौ यमकबद्धनवीन काव्यैः,पार्श्व प्रभुर्ललित "वितानभव्यैः करी : करोतु कुलकैरवपूर्णचंद्रः, सिद्धांतसुंदररति विनमत्सुरेंद्रः।८]
इति श्री यमकबद्ध श्री पार्श्वनाथ लघु स्तवनम् ॥ श्री चिंतामणि पाश्र्वनाथ श्लेषमय लघु स्तवनम्
उपोपेत तपो लक्ष्म्या , उदुज्ज्वल यशोभर । प्रप्रकृष्ट-गुण-श्रोणि, सं संश्रित जय प्रभो ॥१॥ दूरस्थमपि पावं त्वां, यन्मे हृदभिधावति । यस्य येनाभिसम्बोधो, दूरस्थस्यापि तेन सः ॥२॥ एकधातोरनेकानि, रूपाणि किल तत्कथम् । एकमेवाऽभवद्र प-मथिते सप्तधातुभिः ॥३॥ केवलागममाश्रित्य, युष्मद्वयाकरणे स्थिताः । सिद्धि प्रकृतयः प्रापुः, पार्श्व चित्रमिदं महत् ॥४॥ एवं देव दयापर, चिन्तामणिनामधेय पार्श्वत्वाम्। गणि समयसुंदरेण, प्रसंस्तुतः देहि मुक्तिपदम्॥५॥ इति श्लेषमयं चिन्तामष्टि पार्श्वनाथ लघु स्तवनम् । सं० १७०० वर्षे मार्गशीर्ष व दि ५ दिने श्री अहमदावादे हाजा पटेल पोलिमध्ये वृद्धोपाश्रये। उ० श्री समयसुन्दरलिखितं स्वस्य शिष्यार्थ च पठनार्थम् ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org