________________
श्री पार्श्वनाथ यमक बद्ध लघु स्तवनम् ( १८७ ) एवं श्रीजिनचन्द्रस्य, पाश्वनाथस्य संस्तवम् । चक्रे हर्ष-प्रकर्षण, समयादिम सुन्दरः ॥६॥
इति श्री पार्श्वनाथ लघु स्तवनं श्लेषादिभावमयं सम्पूर्णम् ।। सं० १६६० वर्षे चैत्र सुदि १ दिने श्री अहमदावाद नगरे लिखितम् ।
[जेसलमेर-खरतराचार्यगच्छोपाश्रये यति चुन्नीलाल संग्रहे स्वयं लिखित पत्रात् ]
- -- श्री पार्श्वनाथ यमक बद्ध लघु स्तवनम् पाचप्रभु केवलभासमानं, भव्याम्बुजे हंसविभासमानम् । कैवल्यकान्तैकविलासनाथं, भक्त्या भजेहं कमला सनाथम् ।। विघ्नावलीवल्लिमतंगभीर, दिश प्रभो मेऽभिमतं गभीर । जगन्मनः कैरवराजराज, नताङ्गिना शान्तिकराज राज ।२। ततान धर्म जगनाहतार, मदीदह दुःखतती हतार । अचीकरच्छर्म सतां जनानां, जहार दीप्तारशितां जनानाम् ।३। वेगाद्वयनीषी दरिका ममादं, श्रियापि नो यो भविकाममादम्। नुत प्रभु ते च नता रराज, शिवे यशः कैरवतारराज ।४।
यमलम् ।। उवष्टयेषामिह सेवकानां, त्वं मानसे पुष्टरसेवकानाम् । सद्यो लभंते कमलां जिनेश, ते देव कान्ता कमला जिनेश ।। यन्नाम मन्दोपि तदा मुदारं, वदन् पदं याति विदा मुदारम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org