________________
२२६
चित्त-समाधि : जैन योग ६. पद्मासनादिषु निषण्णो वा ॥ ७. ग्रामागार-शून्यगृह-श्मशान-गुहोपवन-पर्वत-तरुमूल-पुलिनानि ध्यान
स्थलानि॥ ८. भूपीठ-शिलाकाष्ठपट्टान्युपवेशनस्थानानि ।। है. सालम्बन-निरालम्बनभेदाद् ध्यानं द्विधा । १०. पिण्डस्थ-पदस्थ-रूपस्थ रूपातीतभेदादाद्यं चतुर्धा ।। ११. शारीरालम्बि पिण्डस्थम् ॥ १२. शिरो-भ्रू-तालु-मुख-नयन-श्रवण-नासग्र-हृदय-नाभ्यादि शारीरा
लम्बनानि ॥ १३. धारणालम्बनं च ॥ १४. प्रेक्षा वा ॥ १५. ध्येये चित्तस्य स्थिरबन्धो धारणा ॥ १६. पार्थिवी-आग्नेयी-मारुती-वारुणीति चतुर्धा ।। १७. स्वाधारभूतानां स्थानानां बृहदाकारस्य वैशद्यस्य च विमर्शः ।। १८. तत्रस्थस्य निजात्मनः सर्वसामोद्भावनं पार्थिवी ॥ १६. नाभिकमलस्य प्रज्वलनेन अशेषदोषदाहचिन्तनमाग्नेयी॥ २०. दग्धमलापनयनाय चिन्तनं मारुती ।। २१. महामेघेन तद्भस्मप्रक्षालनाय चिन्तनं वारुणी ।। २२. श्रौतालम्बि पदस्थम् ॥ २३. संस्थानालम्बि रूपस्थम् ।। २४. सर्वमलापगतज्योतिर्मयात्मालम्बि रूपातीतम् ।। २५. तन्मयत्वमेवास्य स्वाध्यायाद् वैलक्षण्यम् ।। २६. निर्विचारं निरालम्बनम् ।। २७. शुद्धचैतन्यानुभवः समाधिः ॥ २८. विकल्पशून्यत्वेन चित्तस्य समाधानं वा ।। २६. संतुलनं वा ।। ३०. रागद्वेषाभावे चित्तस्यसमत्वं संतुलनम् ॥ ३१. समत्व-विनय-श्रुत-तपश्चारित्रभेदात् स पञ्चधा॥ ३२. रागद्वेष-विकल्पशून्यत्वात्, मान-विकल्पशून्यत्वात्, चित्तस्थैर्यानु
भवात्, भेदविज्ञानानुभवाद्, समत्वादीनि समाधिपदवाच्यानि ॥ ३३. कृष्णादिद्रव्यसाचिव्यादात्मपरिणामो लेश्या ।
३४. कृष्ण-नील-कापोत-तेजः-पद्म-शुक्ला ॥ पांचवां प्रकरण
१. प्राणापान-समानोदान व्यानाः पंच वायवः ॥ २. नासाग्र-हृदय-नाभिः-पादांगुष्ठान्त गोचरो नीलवर्णः प्राणः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org