SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ६६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. कार्यः । एवं मासकल्पोऽपि द्वितीय एकदेत्रे उत्सर्गतो न कार्य रुतुबके काले। कुतः। गृहस्थादिसंगदोषात्। द्वितीय तृतीयं वा वर्षमासं वा परिहृत्य तत्र देने वसेदपि । किं बहुना सर्वत्रैव सूत्रमार्गेण चरेत् । निकुरागमादेशे वर्त्ततेति नावः । तथापि न उघत एव यथाश्रुतग्राही स्यात् । अपितु सूत्रस्य अर्थः पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगनों यथाज्ञापयति नियुङ्क्ते तथा वर्तेत न अन्यथा। यथेद अपवादतो नित्यवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तारगोचरादि परिवर्तेत नान्यथा शुझापवादायोगादित्येवं वन्दनप्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेक्षणेन अनुष्ठानेन वर्तेत । नतु तथाविधलोकेहायातं परित्यजेत्।श्राशातनाप्रसङ्गात् ॥११॥ (टीका.) विहारकालमाह । संवधरं ति सूत्रम् । अस्य व्याख्या । संवत्सरं वापि । अत्र संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते । तमपि। अपिशब्दान्मासमपि परं प्रमाणम् ।वर्षाऋतुबच्योरुत्कृष्टमेकत्र निवासकालमानमेतत् । हितीयं च वर्षम् । चशब्दस्य व्यवहित उपन्यासः। द्वितीय वर्ष वर्षासु चशब्दान्मासं च तुबके न तत्र क्षेत्रे वसेत् । यत्रैको वर्षाकल्पोमासकल्पश्च कृतः। अपितु सङ्गदोषादहितीयं तृतीयं च परिहृत्य वर्षादिकालं ततस्तत्र वसे दित्यर्थः । सर्वथा किं बहुना सर्वत्रैव सूत्रस्य मार्गेण चरेग्मितुः । श्रागमादेशेन वर्तेतेति नावः । तत्रापि नौघत एव यथाश्रुतग्राही स्यात्। अपि तु सूत्रस्यार्थः पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादग! यथाज्ञापयति नियुङ्क्ते तथा वर्तेत नान्यथा।यथेहापवादतो नित्यवासेऽपि वसतावेव प्रतिमासादिसाधूनां संस्तारगोचरादि परिवर्तेत नान्यथा शुझापवादायोगादित्येवं वन्दनकप्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेरणेनानुष्ठानेन वर्त्तत। नतु तथाविधलोकेहायातं परित्यजेत्तदाशातनाप्रसङ्गादिति सूत्रार्थः॥ ११ ॥ जो पुवरत्तावररत्तकाले, संपिकई अप्पगमप्पगेणं ॥ किं मे कम किच्चमकिच्चसेस, किं सक्वलिङ न समायरामि॥१२॥ (श्रवचूरिः ) एवं विविक्तचर्यावतोऽसीदनगुणोपायमाह । यः साधुः पूर्वरात्रापररात्रकाले रात्रिप्रथमचरमप्रहरयो रित्यर्थः । संप्रेक्षते सूत्रोपयोगनीत्या आत्मानमात्मनैव । कथमित्याह । किं मे कृतमिति । गन्दसत्वात्तृतीयार्थे षष्ठी। किं मया कृतं शक्त्यनुरूपं तपश्चरणादि । किं च मम कृत्यशेष कर्त्तव्यशेषमुचितम् । किं वा शक्यं वैयावृत्त्यादि न समाचरामि न करोमीति ॥ १२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy